अथ पञ्चाशत्तमोऽध्यायः

सुव्रत उवाच-


पुरे तत्र हरेः पौराः सेवायां नृप ! तत्पराः । बभूवुः सानुगमुनेर्भक्ता दायादयो द्विजाः ।। १

यौवनाश्वः सुन्दरश्च जूषस्तक्षा च बादरः । खोडादयः क्षत्रवीरा भक्तया पर्यचरंश्च तम् ।। २

कुबेरो रणछोडस्तं मूलजिद्बयजिन्मुखाः । वैश्या नारायणगिरिर्गोस्वामी च सिषेविरे ।। ३

रल्लयाता जिते द्वे च मान्या रामादयः स्त्रियः । भक्तास्तत्परिचर्यायां बभूवुस्तत्परास्तदा ।। ४

अथ प्रीतः स भगवानेकादश्या उपोषणम् । परेद्युरस्तीत्यनुगान्भोजयिष्यञ्जगाद तान् ।। ५

हे सोम ! सूर ! खट्वाङ्ग ! मान्त्रिकालर्क ! मूलजित् ! । सायन्तनाशनं कर्तुमिच्छा चेद्बूत सत्वरम् ।।
एकादश्यस्ति महती श्वो नूनं धात्रिकाभिधा । अन्नानि नैव भक्ष्याणि यत्र नारायणाश्रितैः ।। ७

इति श्रुत्वा प्रभोर्वाक्यं वीक्षमाणाः परस्परम् । उपवासावश्यकतां विदन्तस्तेऽब्रुवन्निदम् ।। ८


पार्षदा ऊचुः-

स्वामिन्मार्गे लड्डुकादि ग्रामे वै पिप्पलावने । अत्तं तेन क्षुधा सम्यङ्नोदरे विद्यतेऽधुना ।।९

तथापि स्वामिनो वाक्यं पालनीयं हि सेवकैः । अत्स्यामस्तेन भगवन्भक्ष्यं किञ्चित्तु साम्प्रतम्।।१०

त्वत्प्रसादस्य माहात्म्यमेकादश्यधिकं प्रभो ! । जानीमोऽथापि ते प्रीत्यै नैवात्स्यामः परेऽहनि ।। ११

श्रुत्वेति वचनं तेषां तदिङ्गितविदीश्वरः । कोऽस्ति पौरजनोऽत्रेति प्रहसन्नुत्थितोऽब्रवीत् ।। १२

बद्धाञ्जलिपुटस्तावत्कुबेरः प्राह तं वचः । एष दासोऽस्ति भगवन्नाज्ञा देया यथारुचि ।। १३

तमाह भगवान् पाकः कारितोऽस्त्यत्र वा न वा । स प्राह सिद्ध एवास्ति पाकोऽत्र क्षीरिकातले ।। १४

गणेशजयरामाद्यैर्विप्रैः सत्वरकारिभिः । प्रचुराज्यसिताः कृत्वा स्थापिताः सन्ति गोलकाः ।। १५

ओदनश्चाढकीसूपः क्वथिका वटिकान्विता । व्यञ्जनानि विचित्राणि कृतानि सन्ति भूरिशः ।। १६

तच्छ्रुत्वा वचनं तस्य पाकशालां स सत्वरम् । गत्वा दृा हरिः पाकं चिन्तयामास भूपते ! ।। १७

प्रसादमाहात्म्यविदां पत्तीनां त्यागिनां तथा । एतेषां खलु नैतावान् पाकः पर्याप्त ईक्ष्यते ।। १८

ततो हरिर्यौवनाश्वं कर्णे प्राह पुराद् द्रुतम् । आनाय्यतां पिण्डकादि भक्ष्यमन्यत् घृतादि च ।। १९

तेनाथ प्रेरिताः प्रेष्याः पुरं गत्वैव सत्वरम् । भृत्वा भक्ष्याणि पात्रेषु गृहीत्वा तानि चाययुः ।। २०

तावद्बगवतः प्रीत्यै जनाः सूर्यपुरागताः । पर्पिकापिण्डकापर्णपात्रस्कन्धा उपाययुः ।। २१

समयोचितसेवां तां दृा तेषां हसन्हरिः । प्रसन्नः प्रशशंसैव भालचन्द्रमुखांस्तु तान् ।। २२

माथुरास्तावदेत्याशु हरेश्चरणयोः पुरः । भीता इवापरिचयाच्चक्रुः पिण्डकपर्वतम् ।। २३

ततोऽतिहृष्टः स महामुनीशः सर्वान् समाहूय च पार्षदान्स्वान् ।
इहासतां भोक्तुमरं भवन्तो यथोचितं पंक्तिश इत्युवाच ।। २४

उपाविशंस्ते शुचयोऽथ भूत्वा हर्याज्ञाया पंक्तिश एव सर्वे ।
तावद्विचिन्त्य प्रभुराजुहाव मुनीनपि स्वाननुगांश्च भोक्तुम् ।। २५

हर्याहूत्याऽतिहृष्टा युगपदपहृतस्वासनस्थानकन्था ।
उत्फुल्लाम्भोजवक्राः करधृतकरकान्धूनयन्तोऽतिवेगात् ।। 
पञ्चार्द्रा भोक्तुमायुर्हरिवदनदृशः साधुसङ्घा हसन्तो । 
भिक्षापात्राणि हर्षाद्द्रुतपदगमना विभ्रतस्ते शुचीनि ।। २६

तानागतान्प्रणमतो मुकुन्दो हर्यनुज्ञाया । यथोचितं यथास्थानमुपावीविशदस्मयः ।। २७

ततः सूता मागधाश्च गायका वाद्यवादकाः । निषेदुर्भोक्तुमागत्य वन्दिनश्चाज्ञाया हरेः ।। २८

दीपानां राजयस्तत्र बभूवुर्हि सहस्रशः । दुर्गाण्यासन्प्रेक्षकाणां भोजकानभितो नृणाम् ।। २९

मर्यादयोपविष्टेषु तेषु सर्वेषु पंक्तिशः । आज्ञापयामास विभुः परिवेष्टुं द्विजांस्ततः ।। ३०

दक्षा द्विजा ये शतशः प्रीतये सग्दुरोः प्रभोः । बद्धकच्छाः क्षणेनैव चक्रुस्ते परिवेषणम् ।। ३१

दत्वादौ भोज्यपात्राणि ततस्ते जलगर्गरीः । गृहीत्वा बिभरामासुरुदपात्राणि सत्वरम् ।। ३२

ततः पङ्क्तिक्रमेणैव यथोचितमसम्भ्रमाः । अन्योन्यास्पृष्टशाकादि परिवेषणमाचरन् ।। ३३

दृाथ गौर्जरीं रीतिं परिवेषणचातुरीम् । पाश्चात्या जहसुः केचित्प्रशशंसुश्च दाक्षिणाः ।। ३४

व्यञ्जनानि विचित्राणि पर्पीपिण्डकलड्डुकाः ।
सर्वेषामेव पात्रेषु नाऽपुरन्योन्यमिश्रताम् ।। ३५

सर्वं सर्वेषु पात्रेषु परिवेषितमिश्वरः ।
विलोक्याज्ञापयामास भोक्तुं सर्वान्निजाश्रितान् ।। ३६

सुस्वादु भोजनं प्रीत्या कुर्वद्भ्यस्तेभ्य ईश्वरः ।
लड्डुकान् दापयामास पिण्डकांश्च पुनः पुनः ।। ३७

तृप्तान् सर्वान् सदन्नैस्तानिच्छतः स्वकरार्पितम् ।
ज्ञात्वा स्वयं शुचिर्भूत्वा चकार परिवेषणम् ।। ३८

तृप्तानामपि तेषां तत्प्राप्तं भगवतः करात् ।
नाभूदरोचकं किञ्चिल्लड्डुकादि मुहुर्मुहुः ।। ३९

ओदने भुज्यमानेऽथ धारयैव ददद्धृतम् ।
रुचिं समापयामास तेषां वै भोजने प्रभुः ।। ४०

तक्रान्तं भोजनमिति वदतः पार्षदानथ ।
सशर्करं पयोऽपिप्यत्तर्हीङ्गितविदीश्वरः ।। ४१

निषिच्यमानं हरिणा पयः पात्रेषु धारया ।
आपूर्य तानि भूमौ च प्रयाति स्म ततस्ततः ।। ४२

सम्मुखस्थस्य सोमस्य पयःश्वेतास्यदर्शनात् ।
भृशं जहासालर्कस्तु स्वयं भूयः पयः पिबन् ।। ४३

पात्रमस्यापतद्बूमावट्टहासं प्रकुर्वतः ।
अहसत्तेन भगवान्हासयन्नश्नतोऽखिलान् ।। ४४

एवमानन्दयन्भक्तान्भोजयामास सोऽनघ ! ।
सन्तृप्तांस्तांश्च विज्ञाय चक्रे स्वकरशोधनम् ।। ४५

अन्योन्यस्योपरि जनाः स्वपादस्पर्शकाम्यया ।
पतिष्यन्तीति तत्स्थानाग्दन्तुमैच्छद्धरिस्ततः ।। ४६

अथोच्चैस्तान् हरिः प्राह प्रेक्षका भोजकाश्च भो ! ।
स्वं स्वं स्थानं प्रयाताद्य श्वश्चाऽयायात सत्वरम् ।। ४७

भवन्तः सम्यगश्नन्तु पाचकाः परिवेषकाः । इति चाज्ञापयामास पाचकादीनपि प्रभुः ।। ४८

इत्यनुज्ञाप्य तान्सर्वान्भक्तकल्पद्रुमः प्रभुः ।
जय सच्चिदानन्देति प्रोच्य स्वं पीठमाययौ ।। ४९

सम्यग्भुक्तीक्षणेन प्रमुदितवदनः स्वीयपादाश्रितानां पश्यन्बद्धाञ्जलींस्तानतिमधुरदृशा भक्तनारीनरौघान् ।
कटयां दत्तैकपाणिश्चपलतरपदैर्धावितस्वानुयायी बिभ्रद्दोष्णा च वेत्रं हरिरखिलगुरुः पीठमध्यारुरोह ५०

भुक्त्वाऽचान्ताश्च ते सर्वे पार्षदाद्या मुहुर्मुदा ।
वीक्षमाणा हरिं दूरात्स्वं स्वं स्थानं ययुस्ततः ।। ५१

उच्चपीठं समासीने तदा योगीश्वरे प्रभौ ।
जनसङ्घो नृपागच्छद्बृगुकच्छपुराद्द्रुतम् ।। ५२

प्रणम्य स हरिं भक्तया मानितस्तेन सादरम् ।
उपहारानुपानीतानर्पयामास तत्क्षणम् ।। ५३

विलम्भकारणं पृष्टस्तदानीं हरिणा स च ।
गन्त्रीभङ्गं महीनद्यामुक्त्वावासाय जग्मिवान् ।। ५४

तदर्पितानिक्षुदण्डान्सुवर्णकदलानि च ।
वीक्ष्यामृतफलानीशः स्वपुरस्तादवैक्षत ।। ५५

स्वस्य पौराणिकं विप्रं दृढाबद्धकटिं स्थितम् ।
नतांसं मयरामं च नाचिकेतं समैक्षत ।। ५६

प्रयागजितमाहाथ प्रहसन्भगवान्वचः ।
अद्याशनेच्छा भवतां वर्तते वा न वा द्विज ! ।। ५७

स प्राहास्ति क्षुदुद्बोधस्तथाप्यध्वश्रमार्दनात् ।
नाद्य पाकं करिष्यामः स्वप्स्यामः प्राश्य वै पयः ।। ५८

हरिस्तमाहाथ हसन्कदलानि घृतं सिताम् ।
भवन्तः सम्यगश्नन्तु श्वः कर्तव्यं व्रतं यतः ।। ५९

इत्युक्तवन्तं तं प्राह स प्रहृस्य द्विजोत्तमः ।
इच्छेयं सफलैवास्तु कृपानाथ ! तवाधुना ।। ६०

ततो ददौ स भगवांस्तेभ्यस्त्रिभ्योऽपि भूरिशः ।
रम्भाफलानि पक्वानि शर्करां चातिनिर्मलाम् ।। ६१

इयतीयतीति गिरा निषेधद्भ्योऽपि पाणिभिः ।
तेभ्यः पुनः पुनः प्रादात्कदलानि च पर्पिकाम् ।। ६२

ततश्च दापयामास प्रस्थत्रयमितं घृतम् ।
पयोभृतां च कलशीं भगवान्ब्राह्मणप्रियः ।। ६३

दत्तं भगवता सर्वं गृहीत्वा तच्च ते त्रयः ।
जग्मुः स्वोत्तरणस्थानं भारावनतकन्धराः ।। ६४

फलानां हरिदत्तानां माधुर्यं ते मुहुर्मुहुः । प्रशंसन्तः फलाहारं चक्रिरे तत्र वाडवाः ।। ६५

सन्तृप्तास्ते ततः प्रोचुस्तुन्दभ्रामितपाणयः । फलाहारः सदैवास्तु मास्तु पाकपरिश्रमः ।। ६६

सर्वान् सन्तोषयित्वेत्थं भक्तांस्तत्रागतान्निजान् ।
अचिकीर्षद्धरिरपि कर्म सायन्तनं स्वकम् ।। ६७

उत्तीर्य पीठात्करसंज्ञायैव दूरे प्रकुर्वन् जनतां जनेशः ।
युक्तस्तदा पञ्चषपार्षदैः स्वैर्निवेशनं स्वीयमुपाजगाम ।। ६८

स्त्रात्वा विशुद्धे वसने वसित्वा प्रवासधर्मानुसृतो यथावत् ।
सन्ध्यादि कर्माचरदीश्वरोऽपि वेदोदितं ग्रहयितुं स्वकीयान् ।। ६९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे भगवत्पार्षदादिभोजनानन्दनिरूपणनामा पञ्चाशत्तमोऽध्यायः ।।५०।।