अथ एकपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच-


पुरेऽपि भक्तैः पुरुषैः स्त्रीभिश्च नृप ! तत्कृते । फलाहारस्य सामग्री तदर्हा समसाध्यत ।। १

धर्मस्थया भक्तया च गङ्गानाम्नया तु विप्रया । सूरणादि घृतेनैव पच्यते स्म विशोधितम् ।। २

खारिकाक्षीरिका चक्रे सच्छृङ्गाटकपूरिकाः । तया च पिण्डकाः शुभ्राः पर्पिका च मनोहरा ।। ३

कृत्वैतच्चोज्ज्वले पात्रे निधायाह पुरौकसः । मुख्यान्भक्तान्भवन्तोऽत्र हरिमानयतेति सा ।। ४

यौवनाश्वादिभिरथो एत्य तत्र स चार्थितः । पुरागमाय भुक्तयर्थं प्रभुस्तान्प्रत्युवाच ह ।। ५

अत्यन्तजनसम्मर्दे कथं पुरि ममागमः । भवेत्ततोऽत्राऽनयत किञ्चिद्बक्ष्यं पयोऽथ वा ।। ६

ततस्तैः प्रेषितो दूतो गत्वा ताः प्राह योषितः ।नायात्यत्र हरिस्तस्माद्बक्ष्यं नयत तत्र वै ।। ७

आज्ञाकर्योऽथ ताः सर्वा भक्ता मान्यामुखाः स्त्रियः । श्रुत्वा तद्दूतवचनं गङ्गामाहुस्तथैव ताः ।। ८

नायात्यत्र हरिस्तस्मात् खाद्यं पात्रे निधाय तत् । त्वमायाहि गृहीत्वैव वयं गच्छेम तत्पुरः ।। ९

धर्मज्ञा सा ततो मार्गे ह्यस्पृश्यस्पर्शशङ्कया । घृतपक्वादि तत्खाद्यं सर्वं पात्रे बभार ह ।। १०

पिधायान्येन पात्रेण तद्वध्वा शाणवाससा । करेणैकेन जग्राह द्वितीयेन गलन्तिकाम् ।। ११

खाद्यपात्रकरा गङ्गा ताश्च नार्यस्ततो ययुः । राजमार्गं विहायैव मार्गेणान्येन सत्वरम् ।। १२

पुराद्बहिश्च निर्यान्ति भक्तास्ता यावदुत्सुकाः । तावत्तत्रापि सङ्घातो जनानामभवन्महान् ।। १३

यावत्तास्तत्स्थलादीषत्परावृत्तिं प्रकुर्वते । तावत्कुबेरभक्तेन जनान् दूरयितुं पथि ।। १४

प्रेषिता आययुर्वेगाच्छूरा राजभटाः पुरः । करेषु यष्टीर्दधतो दूरदूरेति वादिनः ।। १५

पुरःसरैश्च तैः पग्दैरुर्ध्वहस्तैः कृते पथि । चेलुस्ताः शतशो योषा दूरादैक्षन्त च प्रभुम् ।। १६

अवाच्यां सोऽपि ता दूराद्दृा वेत्रधरांस्तथा । जहास च विवेदैव खाद्यमानीतमित्यपि ।। १७

उपेत्य तास्तं नृप ! भक्तयोषा नत्वा हरिं दूरत एव तस्थुः ।
तद्बक्ष्यपात्रं पुरतोऽस्य भूमौ धृत्वा ततः सापि ननाम गङ्गा ।। १८

सायन्तनं सोऽपि विधिं विधाय प्रक्षिप्य कन्दादिषु सैन्धवं तत् ।
निवेद्य कृष्णाय च भक्ततुष्टयै भोक्तुं स्वयं पूर्वमुखो न्यषीदत् ।। १९

पीतं वासो वसानः सिततिलकधरः स्कन्धदत्तोत्तरीयः ।
स्वाङ्गुल्याऽपृश्य कन्दाद्यपि च तदभिधां पूर्वमापृच्छय गङ्गाम् ।। 

स्त्रीपुंसैरात्मभक्तैर्मितहसितमुखैरीक्ष्यमाणः स दूराद् ।
ग्रासे ग्रासेऽम्बुपानं विदधदखिलदृग्भूपतेऽभुक्त भूमा ।। २०

मधुरांस्तु निजाङ्गुल्या पदार्थानस्पृशत्प्रभुः । सर्वेषां प्रीतये किञ्चिद्बुभुजेऽन्यत्सतांपतिः ।। २१

तृप्तोऽस्मीति ततश्चोक्त्वा शिष्टखाद्यममत्रकम् । दासेभ्यो दापयित्वैव जग्राह चुलुकोदकम् ।। २२

प्रक्षाल्य हस्तौ च मुखं स्वापस्थानमगात्ततः । स्वं स्वं स्थानं ययुः सर्वे तदा भक्तास्तदीक्षकाः ।। २३

क्षणं सुप्त्वाऽथ चोत्थाय पार्षदं प्राह सत्वरम् । अश्वं समानयेतीशः सोऽश्वमप्यानयद्द्रुतम् ।। २४

तमारुरोह भगवान्भक्ताभीष्टफलप्रदः । सर्वावासान् द्रष्टुकामः परिमेयपुरःसरः ।। २५

दूरदेशेभ्य आयाता मदर्थं हि जना इमे । माभूवन्क्वापि ते स्थाने क्लिष्टा इति ययौ स तान् ।। २६

ततो जनानां सर्वेषामावासेषु पृथक्पृथक् । गत्वा तत्स्वास्थ्यमापृच्छय न्यूनं यत्तददापयत् ।। २७

सविस्मयं जनैः सर्वैः प्रणतोऽभिष्टुतश्च सः । पुनः स्वस्थानमागत्य सुखं सुष्वाप भूपते! ।। २८

भक्तिं परां निरुपधिं पुरमानवानां देशान्तरागतनृणां च मुहुः प्रशंसन् ।
अग्रे स्वसन्निधिनिविष्टबृहद्व्रतानां निद्रां स किञ्चन दृगग्र उरीचकार ।। २९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे भगवतः फलाहारलीलावर्णननामैकपञ्चाशत्तमोऽध्यायः।।५१।।