सुव्रत उवाच-
अथ निशोऽन्तिमयाम उपागते निपुणबन्दिजनैः समुदीरिताम् ।
मधुरमङ्गलगीतततिं प्रभुर्द्रुतमबोधि निशम्य स भूपते ! ।। १
कृतदृढासन आत्मनि चात्मना निजमलौकिकमक्षरतः परम् ।
अचलरूपमसौपुरुषोत्तमाभिधमचिन्तयदेकमखण्डितम् ।। २
स च ततः कृतशौचविधिः प्रभुर्झटिति भक्तजनाहृतवारिभिः ।
शुचितरैः स्न्पनं विदधे ततः परिदधौ शुचिनी सितवाससी ।। ३
समुपविश्य कुशासन उत्तमे तिलकमूर्ध्वमसावकरोत्ततः ।
प्रथममेव चकार च नैत्यकं विधिमशेषजगग्दुरुरीश्वरः ।। ४
अथ तस्मिन् दिने चक्रे श्रीकृष्णस्य महार्चनम् ।
एकादशीषु सर्वासु क्रियते तेन यत्सदा ।। ५
आहूता ब्राह्मणास्तेन तत्राजग्मुश्च वैदिकाः ।
शास्त्रोक्तलक्षणैर्युक्ताः पूजाविधिविशारदाः ।। ६
तं पूजां कारयामासुर्ब्राह्मणास्ते यथाविधि ।
जानन्तो धर्ममर्यादास्थापनार्थां हरेः कृतिम् ।। ७
मण्डलं सर्वतोभद्रं नानारङ्गोपशोभितम् ।
कृत्वा तन्मध्यभागे च हैमं कलशमादधुः ।। ८
पञ्चपल्लवसंयुक्तं सूक्ष्मवस्त्राभिवेष्टितम् ।
तस्योपरि शुभे पात्रे रम्यास्तरणमण्डिते ।। ९
शोभनां प्रतिमां हैमीं श्रीकृष्णस्य मनोहराम् ।
प्राणप्रतिष्ठां कृत्वैव स्थापयामासुरादरात् ।। १०
तदङ्गदेवताश्चान्याः पार्षदांश्च यथादिशम् ।
स्थापयामासुरव्यग्रास्तन्त्रोक्तविधिना द्विजाः ।। ११
पूजाद्रव्याणि चाहृत्य स्वसमीपेऽखिलानि ते ।
पूजामकारयन्विप्रा मन्त्रैर्वैदिकतान्त्रिकैः ।। १२
नारायणेन मुनिना कुर्वता धर्मपोषणम् ।
पूजायां क्रियमाणायामानन्दो भुव्यजायत ।। १३
वीणावेणुमृदङ्गाश्च शङ्खदुन्दुभयस्तथा ।
नानाविधानि वाद्यानि तत्रावाद्यन्त वै मुहुः ।। १४
तावत्सहस्रशस्तत्र हरेर्भक्ता हि योषितः ।
इतस्ततः समाजग्मुः पुरुषाश्च सहस्रशः ।। १५
सर्वे मङ्गलगीतानि तदाऽगायन्मुदा भृशम् ।
वेदघोषं द्विजाश्चक्रुरुच्चैः सस्वरमुत्सुकाः ।। १६
ब्राह्मणोक्तक्रमेणैव चकाराभ्यर्चनं प्रभोः ।
उपचारैः षोडशभिर्हरिरावाहनादिभिः ।। १७
पञ्चामृतेन संस्नप्य श्रीकृष्णं पयआदिना ।
चक्रेऽभिषेकं शुद्धोदैर्महापुरुषविद्यया ।। १८
अमूल्यवस्त्राभरणैः पूजयामास तं स च ।
सुगन्धिना चन्दनेन पुष्पहारैर्मनोहरैः ।। १९
दत्त्व दशाङ्गं धूपं च दीपांश्च शतशो हरिः ।
नैवेद्यमर्पयामास विविधं सुमनोहरम् ।। २०
ततश्च मध्ये पानीयमुत्तरापोशनं तथा ।
दत्त्वा ताम्बूलपूगादि चक्रे नीराजनं प्रभोः ।। २१
दत्त्वा पुष्पाञ्जलिं भक्तया नत्वा साष्टाङ्गमादरात् ।
अर्थयित्वा हरिस्तं च पूजां तामसमापयत् ।। २२
पूजां समाप्य विधिवन्नित्यदानं विधाय च ।
ब्राह्मणान् पूजयामास सर्वांस्तत्र समागतान् ।। २३
धेनूनां च शतं प्रादात्ततः स्वर्णं तिलांस्तथा ।
शतशो रूप्यमुद्राश्च ब्राह्मणेभ्यो ददौ प्रभुः ।। २४
नानाविधानि वसनानि विभूषणानि दत्त्वा ततःसकलभक्तजनेभ्य ईक्षाम् ।
दातुं निजं स्ववसतेर्बहिरेत्य पीठमुच्चं समारुहदुदारयशाः स भूप ! ।। २५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृतालयदोलोत्सवे भगवत्कृतश्रीकृष्णमहापूजोत्सवनिरूपणनामा द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।