सुव्रत उवाच-
तदा जय जयेत्येवं सर्वत्रैकोऽभवद्ध्वनिः ।
साष्टाङ्गं प्रणिपत्यादौ चक्रुस्तद्दर्शनं जनाः ।। १
मुहूर्तमेवं सर्वेभ्यो दत्त्वा दर्शनमात्मनः ।
तांश्चोपवेशयामास हरिः स्थापनमुद्रया ।। २
यथोचितं च ते तत्र निषेदुः सकला जनाः ।
स्त्रियश्च मुनयः सर्वे वीक्षमाणाः प्रभोर्मुखम् ।। ३
तत्र ज्ञानतपोवृद्धा मुनयस्त्वग्रतो हरेः ।
तेषां च पृष्ठतः सर्वे निषेदुर्मुनयोऽपरे ।। ४
गृहस्था लक्षशस्तांश्च संवेष्टयैवार्धचन्द्रवत् ।
निषेदुर्दक्षिणे भागे सम्मुखाश्च हरेर्नृप ! ।। ५
अग्रे वृद्धाश्च तत्रापि युवानो मध्यदेशगाः ।
पृष्ठतश्च किशोराद्यास्तस्थुर्मर्यादयाऽखिलाः ।। ६
पुरतो वामभागे च हरेः सङ्घस्तु योषिताम् ।
निषेदुरस्पृशन्तो नन्समेता अर्धचन्द्रवत् ।। ७
तस्थुर्मर्यादया तत्र योषास्ता अपि सर्वशः ।
पार्षदाः सोममुख्याश्च पार्श्वयोस्तस्थुरीशितुः ।। ८
स्त्रीपुंसानां मध्यभागे हरिपूजनयायिनाम् ।
धनुःप्रमाणविततं वर्त्माकार्यत दण्डवत् ।। ९
मुनिभिश्च जनैः सर्वैर्मानितौ तावुभावथ ।
रामप्रतापेच्छारामौ हरेरग्रे निषेदतुः ।। १०
सानन्दमेवं सर्वेषु निषण्णेष्वथ गायकाः ।
मुनयः स्वस्ववीणादिवाद्यानि समसज्जयन् ।। ११
विपञ्चिका मृदङ्गांश्च कांस्यतालान्सझर्झरान् ।
सज्जीकृत्य स्वरालापं कृत्वा गायनमाचरन् ।। १२
मुहूर्तं तेषु गायत्सु भगवान्सर्वदर्शनः ।
देशान्तरीयानद्राक्षीत् सज्जवाद्यान् स गायकान् ।। १३
ततो मुनीननुज्ञाप्य गातुं तान्प्रैरयत्प्रभुः ।
षां गायनचातुर्यं ज्ञात्वा तानत्यमानयत् ।। १४
सज्जतासादिवाद्यां च दृाऽथो वादकावलिम् ।
गायकान्विरमय्यैव प्रैरयन्स करेण ताम् ।। १५
अत्युत्सुकाश्च ते सर्वे स्वस्ववाद्यान्यवादयन् ।
तद्धस्तलाघवं दृा प्रशशंस च तान् स्वयम् ।। १६
वस्त्राणि च ददौ तेभ्यः सन्तुष्टो भगवांस्तदा ।
उत्थाय स ततोऽपश्यत् सर्वां जनमयीं भुवम् ।। १७
पूजोपहारपात्राणि धृत्वा तान्समवस्थितान् ।
अज्ञासीत्पूजनं स्वस्य कर्तुमत्युत्सुकाञ्जनान् ।। १८
तेषां मनोरथं पूर्णं कर्तुं भक्तप्रियः स च ।
मेघगम्भीरया वाचा तानुवाच दयानिधिः ।। १९
एकैकग्रामलोका ये ते संहत्य परस्परम् ।
पृथक्पृथगिहायान्तु यूथशः सत्वरं जनाः ! ।। २०
पूजने दीर्घसूत्रित्वं न कार्यं चात्र केनचित् ।
आगन्तव्यं गते यूथे ह्येकस्मिन्नपरेण च ।। २१
सुव्रत उवाच-
प्रभो ! तथा करिष्याम इत्याज्ञां शिरसा हरेः ।
गृहीत्वा ते जनाश्चक्रुस्ततो भगवदर्चनम् ।। २२
तत्रादौ गौर्जरा लोका ह्यल्पसत्वा पृथक् पृथक् ।
कोलाहलं प्रकुर्वन्तो यूथशस्तत्र चाययुः ।। २३
ददुर्भगवते तस्मै वस्त्राणि रुचिराणि ते ।
चन्दनैः पुष्पहारैश्च पूजयामासुरादृताः ।। २४
अलङ्कारांश्च विविधान्सौवर्णान्मणिमण्डितान् ।
अर्पयित्वोपहारांश्च तदग्रे निदधुस्ततः ।। २५
अतीव जल्पतस्तांश्च तर्जन्या नसि दत्तया ।
न्यवारयत्स भगवान् पूजान्ते च व्यसर्जयत् ।। २६
तैः कृताः पीतसाराणां पिण्डकानां च राशयः ।
फलानां विविधानां च विरेजुर्गिरिसानुवत् ।। २७
तद्देशीया योषितश्च फलपुष्पादिपाणयः ।
हरेः पूजां विधायाशु जग्मुः स्नेहाधिका हरौ ।। २८
निरपेक्षोऽपि भगवान्भक्तानामेव तुष्टये ।
भूषणादीनि कृपया स्वीचकार सतां प्रियः ।। २९
भक्तोपनीतान् पृथुकञ्चुकादीन् नीहारचन्द्राभिधतुन्नवायः ।
सेवारतोऽस्यैव विधाय सद्यस्तद्धारणार्हांस्तमधारयच्च ।। ३०
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे गुर्जरदेशस्थभक्तकृतभगवत्पूजननिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।