सुव्रत उवाच-
प्राच्योदीच्यास्ततो लोका नृपाजग्मुर्हरेः पुरः ।
महाबलाः प्रौढदेहा दीर्घनेत्रा महाभुजाः ।। १
अमूल्यानि च वस्त्राणि पुष्पहारान्मनःप्रियान् ।
सहस्रशो मौक्तिकानां स्रजस्ते च समार्पयन् ।। २
तथाविधाः स्त्रियस्तेषां धृत्वा पात्राणि पाणिषु ।
प्रभुं पुपूजुरागत्य भृतानि शर्करादिभिः ।। ३
उपहारान्समर्प्याथ गच्छद्बयस्तेभ्य ईश्वरः ।
स्वकण्ठतः पुष्पहारानुत्तार्यैव ददौ मुदा ।। ४
फलानां नैकजातीनां शर्कराणां च राशयः ।
व्यराजन्त प्रभोरग्रे गण्डशैला इवोन्नताः ।। ५
अथागच्छन्दाक्षिणात्या वर्तुलोष्णीषमण्डिताः ।
बद्धकच्छाश्च तन्नार्यश्चपला इव विद्युतः ।। ६
उपचारैः षोडशभिस्त आनर्चुर्यथाविधि ।
तेषां पूजनचातुर्यं दृा तुष्टोऽभवद्धरिः ।। ७
परिधाप्य च वासांसि सितपीतारूणानि ते ।
भूषणान्यप्यनर्घ्याणि यथास्थानं न्यधारयन् ।। ८
कटकानि शृङ्खलानि करयोश्चाप्यधारयन् ।
अङ्गुलीषु प्रभोस्ते च सद्रत्ना ऊर्मिकाः शुभाः ।। ९
केयूरादीनि बाह्वोश्च कण्ठे सन्मौक्तिकस्रजः ।
शिरस्यधारयन्दिव्यं किरीटं सूर्यवर्चसम् ।। १०
कर्णयोः कुण्डले तस्य हीरकावलिभासुरे ।
धारयित्वा बबन्धुश्च गोधौ मौक्तिकदामनीम् ।। ११
काञ्चीं रत्नमयीं कटयां नूपुरादीनि पादयोः ।
धारयित्वोपहारांश्च निदधुस्तस्य चाग्रतः ।। १२
नानाविधानि खाद्यानि कदलानि सहस्रशः ।
आर्द्रद्राक्षाफलानीक्षून्भक्तया तस्मै न्यवेदयन् ।। १३
महानीराजनं चाथ गीतवादित्रपूर्वकम् ।
कृत्वा पुष्पाञ्जलिं दत्वा प्रणम्य च ततो ययुः ।। १४
प्रासादिकानि तेभ्योऽदात्फलानि भगवान्मुदा ।
पुष्पाणां च समूहा ये मुनिभ्यो व्यभजत्तु तान् ।। १५
उत्थाय तस्थौ पीठे च ततः सद्यः स ईश्वरः ।
तदा जय जयेत्येवं त्रिलोक्यामभवद्ध्वनिः ।। १६
भास्वद्बासुरसत्किरीटविलसत्पूर्णेन्दुबिम्बाननो ।
नानालंकृतिभूषणाङ्गमधुरः श्रोणिस्थपाणिद्वयः ।।
कण्ठात्पादतलावधिक्रमगतैः पौष्पैश्च मुक्तामयै ।
र्हारैर्भक्तमनोहरः स भगवान्पर्यैक्षताऽत्मप्रियान् ।। १७
तावत्पाश्चात्यपुरुषा आययुः स्थूलवेष्टनाः ।
गुणैर्द्वादशभिर्युक्ता ब्राह्मणा भगवत्प्रियाः ।। १८
शस्त्रास्त्रविद्यानिपुणाः क्षत्रिया दृढनिश्चयाः ।
तदोपविश्य तत्पूजां प्रभुरङ्गीचकार सः ।। १९
विधिना कुर्वतः पूजां दृा तानप्यतद्विदः ।
भृशं जहास भगवान्हासयन्मुनिमण्डलम् ।। २०
पूजयित्वाथ ते तस्मै वस्त्राण्याभरणानि च ।
दत्त्वोपहारान्विविधान् ययुर्नत्वा तमीश्वरम् ।। २१
तद्देशीयाः स्त्रियश्चाथ तोषयन्त्यो मनःप्रियैः ।
प्रभुं वचोभिर्मधुरैरुपाजग्मुः सहस्रशः ।। २२
गाढस्नेहा भगवति कृशाङ्गयश्च तपोव्रतैः ।
आतिथ्ये हरिभक्तानां निपुणाश्च जितेन्द्रियाः ।। २३
खर्जूरखारिकापूगनालिकेरैर्भृतानि ताः ।
गृहीत्वा चारुपात्राणि तत्रागत्यार्चयन्प्रभुम् ।। २४
पीतसाराणि शुभ्राणि पिण्डकांश्च मनोहरान् ।
दधानाः पृथुभिः स्थालै रूप्यमुद्राश्च काश्चन ।। २५
शर्करापात्रहस्ताश्च पर्पीपात्रकराः स्त्रियः ।
तमभ्यर्च्योपहारांश्च तदग्रे निदधुर्मुदा ।। २६
एवं सर्वेऽपि ते लोकाः स्वस्वशक्तयनुसारिणीम् ।
पूजां भगवतश्चक्रुर्भक्तया परमया युताः ।। २७
पत्रं पुष्पं फलं वाऽपि दरिद्रा अपि पूरुषाः ।
ददुर्यत्तत्स्वीचकार भावगम्यः स ईशिता ।। २८
राजानो रङ्कजीवाश्च दरिद्रा धनिनोऽपि च ।
तुल्या भक्तप्रियस्यैते सर्वे सन्ति हरेः किल ।। २९
प्रेम्णा भक्तेन पुंसा यत्पत्रं पुष्पं फलं जलम् ।
स्तुतिदूर्वादि वा दत्तं प्रीत्या गृाति तत्प्रभुः ।। ३०
अथो मुनीनपि ज्ञात्वा स्वपूजनसमुत्सुकान् ।
पूर्णं कर्तुं ह्यादिदेश तेषामपि मनोरथम् ।। ३१
यथालब्धोपचारैस्ते पत्रपुष्पफलादिभिः ।
पूजां भगवतश्चक्रुः प्रणमन्तस्तपोधनाः ।। ३२
एवं भगवता तत्र भक्तकल्पद्रुमेण वै ।
सत्सङ्गिनां हि सर्वेषां कृताः पूर्णा मनोरथाः ।। ३३
परितश्च हरेरासन् भूषणानां सुवाससाम् ।
पुष्पाणां चोपहाराणां विचित्राः पर्वताः किल ।। ३४
दिव्योच्चपीठमासीनस्तन्मध्ये भगवान्बभौ ।
मेरुस्थ इव पूर्णेन्दुः केसराचलमध्यतः ।। ३५
तदैव ब्राह्मणेभ्योऽथ स प्रभुर्भूषणानि च ।
वासांसि चाप्यनर्घ्याणि ददौ सद्यो जगत्पतिः ।। ३६
याचकेभ्यस्तथान्येभ्यो दरिद्रेभ्यो विशेषतः ।
अधनेभ्यः कुटुम्बिभ्यो ददौ भूरि धनं प्रभुः ।। ३७
तोयं घनाघन इव प्रववर्ष ततः प्रभुः ।
द्रव्यं भूरितरं प्रीतो गृहस्थेभ्योऽपि तत्र सः ।। ३८
तस्मिन्नेव क्षणे सर्वमेवं दत्त्वाप्यविस्मयः ।
सर्वान्विस्मापयामास कुर्वन्कर्म ह्यमानवम् ।। ३९
अत्युदारधिय ऊर्जितश्रियः श्रीहरेर्वितरणोद्यतस्य त
वस्तु नाप किमपि ह्यदेयतां भूपते ! स्वधृतवाससी विना ।। ४०
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे सकलभक्तसङ्घकृतभगवत्पूजननिरूपणनामा चतुःपञ्चाशत्तमोऽध्यायः ।। ५४ ।।