सुव्रत उवाच-
तस्मिन्दिने जनाः सर्वे एकादश्या उपोषणम् ।
चक्रुः स्वयं स भगवान्मर्यादारक्षणाय वै ।। १
नागदेवात्समारभ्य मुहूर्तात्पूजनोत्सवः ।
आर्यम्णावधि तत्राभूत्तद्दिने तस्य भूपते ! ।। २
भाग्ये मुहूर्तेऽथ हरिर्ब्राह्मणांस्तत्र संस्थितान् ।
सायंसन्ध्यावन्दनार्थं गच्छतेत्यादिदेश ह ।। ३
स्वधर्मपालनं प्रेष्ठं प्रभोरस्तीति ते द्विजाः ।
निश्चित्य सरसस्तीरं जग्मुः सर्वे तदाज्ञाया ।। ४
जनानामपि विश्रामो मुहूर्तं स्यादिति स्वयम् ।
तुङ्गासनात्समुत्तीर्य स्वावासान्तर्विवेश सः ।। ५
ततो जनाश्च मुनयः स्वस्वावासान्समेत्य ते ।
किञ्चिद्विश्रम्य पीत्वाम्भः पुनराश्वगमन्सभाम् ।। ६
कृत्वा सन्ध्याविधिं तूर्णं ते चागत्य पुनर्द्विजाः ।
निषेदुस्तत्र सदसि यथास्थानं यथोचितम् ।। ७
तावत्स चापि भगवान्प्रणतार्तिहन्ता विश्रम्य किञ्चिदथ सान्ध्यविधिं विधाय ।
नैसर्गिकस्वगतिधावितपार्षदौघो लोलत्सदुत्तरपटोऽधिरुरोह पीठम् ।। ८
तत्र स्थितः स्वपरितो निजभक्तसङ्घान्पश्यन्दृढं स्वकटिबन्धपटं विधाय ।
नारायणस्य च वदन्नभिधाः स उच्चैस्तालध्वनिं परिततान हरिः कराभ्याम् ।। ९
तदानीं तु जनाः सर्वे स्त्रियश्च मुनयस्तथा ।
तालिकावादनं चक्रुः कीर्तयन्तोऽभिधा हरेः ।। १०
लक्षशस्तालिकाध्वानैस्तत्कालोत्थैश्च मिश्रितः ।
भगवन्नामनिनदस्त्रिलोकीं व्यानशे तदा ।। ११
ऊर्ध्वैर्जनानां लोलद्बिर्बभौ भूः करपल्लवैः ।
वातोल्लोलैः स्थलाम्भोजैः प्रफुल्लैरिव मण्डिता ।। १२
हस्तलाघवचातुर्याद्योजनं च वियोजनम् ।
भगवत्तलयोः कश्चित् पृथग्वेत्तुं शशाक नो ।। १३
सहस्न्शो दीपिकाश्च तत्रासन्नथ सर्वतः ।
दिवेव तत्प्रकाशेन ज्योत्स्न्या च बभौ निशा ।। १४
तदा विठ्ठलदासश्च कृष्णदास उभौ हरेः ।
तस्थतुः पार्श्वयोरुर्ध्वप्रवेष्टघृतदीपिकौ ।। १५
कीर्तनान्ते नमन्ति स्वं यावत्ते मुनयो जनाः ।
तावत्स्वयं जनान्तःस्थमुपविश्य स्वमानमत् ।। १६
विस्मितास्तस्य तद्दृा ह्युपवेशनलाघवम् ।
तं नमस्कृत्य मुनयस्तुष्टुवुस्ते निजं प्रभुम् ।। १७
गोविन्द ! नारायण ! वासुदेव ! श्रीकृष्ण ! सङ्कर्षण ! पद्मनाभ ! ।
नरानिरुद्धेश्वर ! लोकनाथ ! हरे ! मुकुन्दाद्य ! नमो नमस्ते ।। १८
आनन्दकन्दाच्युत ! सुन्दराङ्ग ! दयानिधे ! माधव ! मङ्गलात्मन् ! ।
विष्णो ! हृषीकेश ! परावरेश ! प्रद्युम्न ! पद्मानन ! ते नमोऽस्तु ।। १९
विशुद्धमूर्ते ! मधुसूदनाज ! दामोदर ! श्रीधर ! सर्ववन्द्य ! ।
ब्रह्मण्यदेवाक्षर ! पूर्णकाम ! प्रभो ! विभो ! नाथ ! नमो नमस्ते ।। २०
वैकुण्ठ ! सत्योत्तम ! सत्त्व ! भूमन् ! हिरण्यगर्भ ! त्रिककुत्कलेश ! ।
विश्वोत्तमश्लोक ! विधे ! महर्षे ! प्राणेश ! विश्वेश्वर ! ते नमोऽस्तु ।। २१
वृषाकपे ! केशव ! धर्म ! धीर ! शुचिश्रवो ! भूतपते ! परात्मन् ! ।
पुण्याङ्ग ! यज्ञोष्टद ! पुण्यकीर्ते ! सुधीर्नमस्ते ! पुरुषोत्तमाय ।। २२
अधोक्षज ! श्रीकर ! कञ्जनेत्र ! वेदैकविद्वेदकृदव्ययात्मन् ! ।
अव्यक्त ! संश्चित्पर ! सौख्य ! हेतो ! आनन्द ! विद्याधिपते ! नमोऽस्तु ।। २३
ज्ञोयादिदेव ! प्रियभक्त ! पूज्य ! प्रेष्ठ ! प्रजेशामरवर्य ! सर्व ! ।
ब्रह्मागुणागम्य ! सदर्चनीय ! प्रमाणहीनाधिपते ! नमोऽस्तु ।। २४
स्वामिन्महेशामलधाम ! देव ! ज्ञानप्रदागोचर ! सग्दुणाऽप्त ! ।
सहस्रमूर्ते ! पुरुषाप्तकाम ! प्रकाशकाकाशवपुर्नमस्ते ।। २५
स्वतन्त्र ! मायाधिप ! सर्वशक्ते ! सदा प्रसन्नो भव पाहि चास्मान् ।
त्वमेव सर्वाश्रयणीय एकस्तस्मै मुहुस्ते भगवन्नमोऽस्तु ।। २६
ततश्च प्रार्थयामासुः सर्वे भक्तजनाः प्रभुम् ।
बद्धाञ्जलिपुटा भक्तया तन्मुखार्पितदृष्टयः ।। २७
अस्माकं स्खलने क्षुते च पतने व्याधौ तथा जृम्भणे ।
मूर्च्छायां मरणेऽपि वा विवशतां सम्प्राप्स्यतां नित्यदा ।।
त्वन्नामान्यखिलाघदुःखनिचयध्वंसातिशौर्याणि वै ।
वाचायां विलसन्तु निश्चलतया भक्तप्रिय ! श्रीहरे ! ।। २८
मा देहगेहद्रविणेषु बुद्धिर्व्रजेद्बवत्पादयुगं विहाय ।
अस्माकमित्येव हरेऽभियाचितं सम्पूरयाधीश ! भव प्रसन्नः ।। २९
इति सम्प्रार्थ्य ते सर्वे भक्तास्तग्दतमानसाः ।
निषेदुश्च यथास्थानं तं प्रणम्येश्वरं पुनः ।। ३०
उपविष्टेषु सर्वेषु सर्वेषां हितकृत्प्रभुः ।
किञ्चिद्विवक्षुस्तांस्तूष्णीमकरोत्करसंज्ञाया ।। ३१
तूष्णीं तेषूपविष्टेषु स्वास्यैककृतदृष्टिषु ।
मेघगम्भीरया वाचा प्रोवाच भगवानिदम् ।। ३२
श्रीनारायणमुनिरुवाच-
शृण्वन्तु मामकाः सर्वे मुनयश्च नराः स्त्रियः ।
अव्यग्रमनसो भक्ता ! वाच्यमानं मया वचः ।। ३३
व्रतं जागरणेनैव सम्पूर्णफलदं भवेत् ।
अतोऽद्य जागरः कार्यः श्रीकृष्णगुणकीर्तनैः ।। ३४
इत्युक्त्वा गापयामास कृष्णपद्यानि भूरिशः ।
संस्कृतानि प्राकृतानि मुक्तानन्दादिभिश्च सः ।। ३५
तालिकावादनं कुर्वन्नुच्चैस्तैरपि कारयन् ।
स्वयं च तैः सह जगौ भक्तसङ्घमनोहरः ।। ३६
आनन्दयन्भक्तजनान्स इत्थं तान्कारयञ्जागरणं नरेश! ।
शुश्राव दीर्घं कृकवाकुशब्दं निशोऽन्तिमे याम ऋषिः पुराणः ।। ३७
आज्ञाप्य सर्वान् समुनीञ्जनांस्तांस्ततो विधातुं स च नित्यकर्म ।
नमस्कृतस्तैः पटमण्डपं स्वं समेत्य कर्माण्यकृतात्मनः षट्र ।। ३८
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे सायन्तनविधिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः।।५५।।