सुव्रत उवाच-
श्रीकृष्णस्याथ विधिवत्स कृत्वोत्तरपूजनम् ।
हैमीं मूर्तिं द्विजेन्द्राय प्रददौ धरणीपते ! ।। १
ब्राह्मणान्भोजयामास शतशश्च सहस्रशः ।
यथेष्टघृतखण्डाढयैर्भक्ष्यैर्भोज्यैश्च तत्प्रियैः ।। २
भोजयित्वा मुनीन्सम्यक् पार्षदादींश्च पूर्ववत् ।
पाकं कर्तुं समारेभे स्वावासे च स्वयं हरिः ।। ३
रामप्रतापेच्छारामौ सभार्यौ च तदैत्य तम् ।
प्रार्थयामासतू राजन्बहुधा विनयानतौ ।। ४
एतावत्कालपर्यन्तं त्वया पाकः स्वयं कृतः ।
स्वज्ञातिविप्रस्याभावाद्युक्तं तत्तव धर्मिणः ।। ५
साम्प्रतं तु वयं सर्वे त्वामेव शरणं गताः ।
त्वदन्तिके च स्थास्यामो यावज्जीवं सहान्वयाः ।। ६
अतोऽस्माभिः कृतं पाकमुपयोक्तुं त्वमर्हसि ।
कृतार्था हि भविष्याम एतावत्यैव सेवया ।। ७
सुव्रत उवाच-
इति सोदरयोर्वाक्यं स निशम्य कृपानिधिः ।
तयोर्निष्कपटं भावं विदन्स्वस्मिन्नुवाच तौ ।। ८
एवमेवाचरिष्यामि मान्यत्वाद्युवयोरपि ।
निर्दम्भं मयि भावं वां जाने सपरिवारयोः ।। ९
एकैकस्मिन् दिने भोक्ष्य एकैकस्य गृहे हि वाम् ।
विधाय कृष्णनैवेद्यमाह्वातव्योऽहमन्वहम् ।। १०
आमान्नादि मदर्थं च दद्युर्भक्तजनास्तु यत् ।
भवद्भ्यां तद्ग्रहीतव्यं पाकः कार्यो विशोध्य तत् ।। ११
इत्युक्तौ तौ च तद्बार्ये आस्तां सुप्रीतमानसौ ।
प्रसन्नाश्चाभवन्सर्वे भक्ता अपि तदा नृप ! ।। १२
रामप्रतापस्यावासे तस्मिन्नेव दिने ततः ।
पाकः कृतः सुवासिन्या पारणां तत्र सोऽकरोत् ।। १३
ततः सर्वदर्शनं दातुं सर्वेभ्यो नृभ्य आत्मनः ।
पीठमुच्चमुपेत्याशु न्यषीदत्तत्र नाडिके ।। १४
कृताह्निकानां यूथानि नृणां तद्दर्शनाय च ।
आजग्मुर्दर्शनं कृत्वा जग्मुश्च कतिचित्ततः ।। १५
ब्रह्मचर्यव्रतस्थत्वाद्दिवानिद्रामनाचरन् ।
ततः स जनविश्रान्त्यै प्राविशद्दूष्यमात्मनः ।। १६
तत्रापि सोमसूराद्यैः पार्षदैर्वर्णिभिश्च सः ।
मुकुन्दाद्यैः सेविताङ्घ्रिर्निषसादासने शुभे ।। १७
ततोऽपरासमये पीठमुच्चमुपेत्य सः ।
निषसाद वृतः स्वीयैः पार्षदादिभिरीश्वरः ।। १८
मुनयश्च जनाः सर्वे तावत्तत्रैत्य सत्वरम् ।
स्त्रियश्च गायकाद्याश्च यथोचितमुपाविशन् ।। १९
परितो वीक्षणेनैव भक्तान्सन्तोष्य तान्स्थितम् ।
प्रभुं प्रणम्य पप्रच्छुः कुबेराद्याः पुरौकसः ।। २०
दोलोत्सवस्तिथौ कस्यां नरनारायणप्रभोः ।
कर्तव्य इह तद्ब्रूहि सम्भारान्कारयाम भोः ! ।। २१
श्रीनारायणमुनिरुवाच-
फाल्गुन्यां फाल्गुने मासि नक्षत्रेऽर्यमदैवते ।
नरनारायणस्याऽसीज्जन्म स्वायंभुवान्तरे ।। २२
तदैव दिव्यदोलायामारोप्य विबुधाधिपैः ।
आन्दोलितोऽस्ति भगवान्प्रथितोऽसौ ततो महः ।। २३
भगवज्जन्म यत्र स्याच्छैशवादिक्रमेण तु ।
प्राधान्यं तत्र हि तिथेरन्यत्रर्क्षस्य निश्चितम् ।। २४
अस्माकं पूज्यदेवोऽस्ति नरनारायणः प्रभुः ।
स षोडशाब्दिको धर्मान्मूर्तौ जातो हि वर्णिराट् ।। २५
नक्षत्रव्रतमेवैतदार्यम्णर्क्षे ततोऽखिलैः ।
सूर्योदयस्पृशि जनैः कार्यमस्मन्मताश्रितैः ।। २६
सुव्रत उवाच-
इत्युक्त्वा तान्स भगवानपृच्छत्पुरतः स्थितम् ।
तदृक्षं मयरामाख्यं ज्योतिःशास्त्रविदं द्विजम् ।। २७
निष्कास्य वेष्टनात्सद्यस्तिथिपत्रं विलोक्य सः ।
ऊचे कृष्णप्रतिपदि तदृक्षं भवतीति तम् ।। २८
अथाह भगवान् पौरान् महः प्रतिपदि प्रभोः ।
कर्तव्य इति ते जग्मुस्तदुद्योगपराः पुरम् ।। २९
सत्सङ्गिनोऽन्यदेशीयास्तावदेत्य सहस्रशः ।
नत्वा तं प्रार्थयामासुर्भोजनार्थं पृथक् पृथक् ।। ३०
ममावासेऽखिलैः साकं मुनिभिः पार्षदैर्द्विजैः ।
आगन्तव्यं भोजनार्थं श्वः परश्वोऽथवा त्वया ।। ३१
इत्थं पृथक्पृथक्सर्वाञ्जनान्प्रार्थयतः प्रभुः ।
विलोक्य प्रहसन्नाह श्रूयतां मद्वचो जनाः ! ।। ३२
भक्तयैव खलु युष्माकं प्रीतोऽस्मि मुनिभिः सहः ।
पृथक् पृथग्भोजनार्थं कर्तव्यो नाऽग्रहस्ततः । ३३
एकैकस्मिन्दिने भक्ता ! एकैकस्य गृहे पृथक् ।
अपि वर्षशतेनैतत्कथं पूर्येत भोजनम् ।। ३४
तस्मादेकैकदेशीयैः संहत्यैव पृथक् पृथक् ।
मुनिसन्तर्पणं कार्यमेकैकस्मिन् दिने जनाः! ।। ३५
भक्ष्यैर्भोज्यैश्च विविधैर्लेह्यैश्चोष्यैश्च सद्रसैः ।
तृप्तेष्वेतेषु तृप्तोऽहमिति जानीत निश्चितम् ।। ३६
साक्षान्मद्बोजनेच्छा चेद्युष्माकं तर्हि शोधितम् ।
मद्भ्रात्रावास आमान्नं भवन्तः प्रापयन्त्विह ।। ३७
एवं कृते हि सर्वेषां सेत्स्यन्त्येव मनोरथाः ।
इत्युक्तास्ते जना जग्मुः स्वं स्वं स्थानं तथाऽचरन् ।। ३८
ततः सायं स भगवान् नामसङ्कीर्तनं प्रभोः ।
चकार गापयामास तग्दुणांश्च महर्षिभिः ।। ३९
स्वावासान् गन्तुमाज्ञाप्य पूर्वेद्युः कृतजागरान् ।
निजभक्तांस्ततः स्वामी जगाम स्वावमोचनम् ।। ४०
तत्र नित्यविधिं कृत्वा धौतपादकराम्बुजः ।
सुखं निदद्रौ निद्रेशो ध्यायन्नेव हितं सताम् ।। ४१
उषस्युत्थाय च पुनश्चक्रे नित्यविधिं हरिः ।
उत्सवोचितसम्भारांस्ततः पौरैरकारयत् ।। ४२
चतुर्दश्यामपि प्रातः कृत्वा नित्यविधिं स्वकम् ।
पौरैः कृतांस्तु सम्भारान् सोऽर्थितस्तैर्ददर्श च ।। ४३
लोके कुसङ्गिजनवन्मदुपाश्रयैस्तु होलादिनेषु पुरुषैर्न कदापि कार्यम् ।
गुह्याङ्गशब्दभषणं च खरावरोह इत्यात्मसंश्रितजनान्स तदाऽन्वशाच्च ।। ४४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे दोलोत्सवनिर्णयनिरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ।।५६।।