सुव्रत उवाच-
अथापरेद्युः कृतनित्यकर्मा पीठं स्वमुच्चं स उपेत्य राजन् ! ।
अध्यारुरोहाखिलभक्तसङ्घैस्तोष्टूयमानो विनयावनम्रैः ।। १
पौराङ्गनाः पूजयितुं तमीयुः सहस्रशस्तावदुदारभावाः ।
गृहीतसच्चन्दनपुष्पपात्राः पुंसोऽस्पृशन्त्यो नतगात्रवल्लयः ।। २
विज्ञाय तासां दृढभावमीश आज्ञापयामास निजार्चनाय ।
तदैव ता हर्षभृतान्तरङ्गाः प्रेम्णा तमात्माधिपतिं पुपूजुः ।। ३
सुगन्धिना केसरचन्दनेन काश्मीरमिश्रेण सदक्षतैश्च ।
विचित्रवर्णोत्तमपुष्पहारैर्वस्त्रैः पुपूजुश्च विभूषणैस्तम् ।। ४
सुस्वादुनानाफलपूरितानि निधाय पात्राणि तदन्तिके ताः ।
प्रेमाश्रुरुद्धेक्षणवृत्तयस्तं प्रणम्य जग्मुः शनकैश्च दूरम् ।। ५
गता तिथिः पञ्चदशी तु नारीसम्पूजनस्वीकरणादिनैव ।
निद्राय किञ्चिन्निशि सार्धयामे शेषे जजागार स जागरूकः ।। ६
उत्थाप्य तर्ह्येव मुकुन्दमुख्यान्स्वसेवकाञ्श्रीबदरीश्वरस्य ।
पूजां विधातुं महतीमशेषान्संसाधयामास महोपहारान् ।। ७
स्नत्वा विधिं नैत्यकमाशु कृत्वा विप्रान्समाहूय विधिप्रवीणान् ।
नारायणस्याथ नरस्य मूर्तिं हैमीं समानर्च च पूर्ववत्सः ।। ८
उपचारैः षोडशभिरावाहनपुरस्कृतैः । नरनारायणं भक्तया पूजयित्वाऽभ्यवन्दत ।। ९
सद्योऽथ कारिते दिव्ये नानास्तम्भोपशोभिते । दोलामबन्धयद्धैमीं मण्डपे सुमनोहरे ।। १०
तस्यां सुवर्णदोलायां युक्तायां मणिराजिभिः । बदरीशं स्थापयित्वा प्रणम्याभ्यर्चयत्पुनः ।। ११
कस्तूरीकेसरोपेतं कर्पूराद्यभिमिश्रितम् । तस्मै भगवते प्रीत्या सोऽर्पयामास चन्दनम् ।। १२
नानाविधान् पुष्पहारान्नैवेद्यं च समर्प्य सः । आन्दोलयित्वा घटिकां चक्रे नीराजनं महत् ।। १३
हैमं पात्रं कराभ्यां विरचितकमलं मौक्तिकैः कान्तिमद्बि- ।
र्मध्ये कर्पूरदीपं स दधदभिमुखं श्रीविशालेश्वरस्य ।।
तिष्ठंस्तद्धयाननाटयं विदधदथ शनैर्मण्डलाकारमूर्ध्वं ।
पात्रं तद्भ्रामयन्वै निजजनहृदयान्याहरद्दोर्विलासैः ।। १४
नीराजने भगवता क्रियमाणे तु सर्वशः ।
भूमौ दिवि च वाद्यानि समवाद्यन्त भूरिशः ।। १५
देशान्तरीयाश्च तदा लोकाः सर्वे कृताह्निकाः ।
श्रुत्वा वाद्यध्वनिं शीघ्रं तत्राजग्मुः समुत्सुकाः ।। १६
चन्दनानि सुगन्धीनि पुष्पाणि विविधानि च ।
निधाय पात्रेषु तथा पूजाद्रव्याण्यनेकशः ।। १७
उपायनानि भूरीणि गृहीत्वा च पृथक् पृथक् ।
स्वस्वग्रामस्थलोकाश्च संहत्यैव परस्परम् ।। १८
नानाविधानि वाद्यानि वादयन्तोऽतिहर्षिताः ।
हरेर्मङ्गलगीतानि गायन्तस्ते समाययुः ।। १९
नीराजनस्य समये सर्वे ते तत्र सङ्गताः ।
चक्रुर्वाद्याध्वनिं हृष्टा मुखैरपि जयध्वनिम् ।। २०
स घोषस्तुमुलो जातो लक्षशश्च तदा नृणाम् ।
तालिकाध्वनिभिर्मिश्रो व्यानशे ककुभो दश ।। २१
गृहीत्वा रूप्यपात्रेभ्यो गुलालं प्रसृतैर्भृशम् ।
उच्चिक्षिपुः पार्षदाद्यास्तदा दोलान्तिके स्थिताः ।। २२
देवा ब्रह्मादयः सर्वे विस्मिताः खे तदा स्थिताः ।
कुर्वन्तः पुष्पवर्षाणि दुन्दुभींश्चाप्यवादयन् ।। २३
तुष्टुवुर्मुनयः सर्वे गन्धर्वाश्च जगुर्भृशम् ।
नृत्यमप्सरसश्चक्रुर्देवाश्चान्ये जयध्वनिम् ।। २४
महोत्सवे जायमाने सर्वत्रैवं स सत्पतिः ।
कुर्वन्नीराजनं तस्य प्रभोरित्यवदत्स्वयम् ।। २५
जय देव ! जय मङ्गलधामन् ! २ नारायण ! पुरुषोत्तम ! २ नरसख ! सकलात्मन् !
जयदेव ! जय देव २। ध्रुवपदम्।
भास्करचारुरुचौ च प्रसरद्बहुकिरणे २ नानारत्नसमुच्चित २ मणिनिकराभरणे।
मण्डपमध्यविराजितदोलासनसारे २ वन्दे त्वां स्थितमीशं २ सुरनरपरिवारे जय देव० ।। २६
हीरकवरपरिकान्तं दधतं ह्यतिविमलं २ वन्दे त्वां मकराकृति २ कुण्डलवरयुगलम् ।
रत्नोज्ज्वलतरमुकुटं शिरसा च दधानं २ चञ्चललोचनवीक्षण २ कृतबहुसुखदानं जय देव० ।। २७
चञ्चद्वस्रानिवीते विद्युद्दयुतिवलये २ केयूरे च कराभ्यां २ दधति त्वयि निलये ।
नानाहारविराजितहृदये मम चित्तं २ रमतां सुखदे नित्यं २ त्वदनुस्मृतिवित्तं जय देव० ।। २८
नूपुरशोभितचरणं करधृतवरकमलं २ ईषद्धास्यविसर्पित २ दशनद्युतिपटलम् ।
ध्यायामि प्रभुमेकं सततं हृदयेऽहं २ त्वामिति पाहि सदा मां २ निजजनमतिगेहं जय देव० ।। २९
सर्वेशः सकलात्मा सुरनरमुनिपाता २ स्वामी सम्मत एक २ स्त्वमतोऽखिलधाता ।
मामिति शरणायातं ह्युद्धर भवसिन्धो २ र्नारायण ! बदरीश्वर ! २ देव ! दयासिन्धो ! जय देव० ।। ३०
इत्थं सङ्कीर्तयन्नेव कृत्वा नीराजनं हरिः । मन्त्रपुष्पाञ्जलिं दत्वा चक्रे तस्य प्रदक्षिणाम् ।। ३१
प्रणामं च पुनः कृत्वा दण्डवद्बक्तिसंयुतः । बद्धाञ्जलिपुटोऽस्तौषीन्नरनारायणं प्रभुम् ।। ३२
अथौत्सुक्येन सम्प्रार्थ्य तं प्रणम्य ततो द्विजान् । नारायणमुनिः प्रीत्या पूजयामास सर्वशः ।। ३३
वस्त्रैराभरणै रत्नैर्गोभूस्वर्णगजादिभिः । तान्प्रीणयित्वा भगवान् पूजां तामसमापयत् ।। ३४
न ब्राह्मणेभ्य इह तस्य किमप्यभीष्टं न ब्राह्मणेभ्य उत तस्य किमप्यदेयम् ।
तान्प्रीणयन्ननुसवं तदभीष्टदानैब्रह्मण्यदेव इति स प्रथितस्ततोऽभूत् ।। ३५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे दोलारुढनरनारायणार्चनविधिनिरूपणनामा सप्तपञ्चाशत्तमोऽध्यायः ।।५७।।