अथ अष्टपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच-


ततो वृतः सोममुकुन्दमुख्यैः स्वभृत्यवर्गैर्निजपीठमेत्य । सिताम्बरोऽध्यारुहदाशुकारी स भक्तसङ्घेक्षणवृत्तिहारी ।। १

तदा जयेति ध्वनिरास भूयान्वादित्रघोषश्च महान्बभूव । प्रभुश्च भक्तानखिलानुपेतानतीतृपत् स्न्ग्धिसमीक्षणेन ।। २

तदा कुबेरः सहयौवनाश्वस्तक्षादयश्चामुमुपेत्य भक्तया । महार्हवस्त्राभरणैश्च गन्धैः पौष्पैश्च हारैर्विविधैः पुपूजुः ।। ३

आनर्चुरन्येऽपि जनास्तमीशं देशान्तरीया ननु पूर्ववच्च । वस्त्रैश्च नानाविधभूषणाद्यै राजोपचारैः स्तुतिभिश्च नत्वा ।। ४

तावत्तु पौरा महतः कटाहानानिन्यिरे केसररङ्गपूर्णान् । भृतानि शोणैरपि गर्गरीणां रङ्गै शतानि द्रुतमाहरंश्च ।। ५

हृदांश्च कुम्भैरपि कृत्रिमांस्ते त्वानीय रङ्गान् बिभराम्बभूवुः । तत्राऽहरन् जानपदास्तु सर्वे भृतान् गुलालैः पृथुकोष्टलांश्च ।। ६

सहस्रशो रङ्गविमोचनानि यन्त्राणि हर्षेण सरेचकानि । तत्राहरन्पौरजनाः समेतास्तेनात्मभर्त्रा सह रन्तुकामाः ।। ७

विलोक्य तान्बद्धकटीनुपेतान्विहर्तुकामान्निजभक्तसङ्घान् । मनोरथं पूर्णमसौ नरेश ! तेषां निजानामचिकीर्षदाशु ।। ८

दत्त्वा स्वभूषादि ततो द्विजेभ्यो बध्वा कटिं पीतपटेन तूर्णम् । जग्राह हैमं स तु रेचकं स्वे पाणौ हसन्हासितभक्तसङ्घः ।। ९

स्त्रीणां तु वृन्दान्यतिदूरतोऽसौ विधाय सद्यः करसंज्ञायैव । विक्रीडितुं भक्तजनान्यथेष्टमाज्ञापयामास गृहीतरङ्गः ।। १०

प्रवर्षयामास स रङ्गधाराः साकं गुलालप्रसृतैर्महद्बिः । समीपवर्तिष्वपि दूरदेशसंस्थेषु भक्तेषु समानवर्ती ।। ११

चक्रेऽभिषेकः परितश्च तस्मिन्मुनिव्रजै रेचकमुक्तरङ्गैः । क्षिपद्बिराराच्च गुलालमुष्ठीन् गायद्बिरेवास्य गुणान्हसद्बिः ।। १२

परस्परस्योपरि यूथशस्ते रङ्गं गुलालं च भृशं क्षिपन्तः । हरेः समीपे मुनयो जनाश्च जरद्युवार्भाश्च चिरं विजह्नुः ।। १३

यूथक्रीडां विहायैव चिक्रीडुर्द्वन्द्वशस्ततः । प्रीणनार्थं भगवतो मुनयः पार्षदादयः ।। १४

रामप्रतापेच्छारामौ निजदेशानुसारिणीम् । कुर्वन्तौ रेचकक्रीडां हासयामासतुर्हरिम् ।। १५

मुक्तानन्देन गोपालनन्दश्चिक्रीड सन्मुनिः । ब्रह्मानन्दस्तदा नित्यनन्देन मुनिराड् नृप ! ।। १६

सच्चिदानन्दमुनिना शतानन्दश्च मद्गुरुः । चिक्रीड भूधरानन्दः शुकानन्देन चर्षिणा ।। १७

मुनी गुणातीतानन्द आनन्दानन्द इत्युभौ । रेमाते च दयानन्दो निष्कुलानन्द इत्युभौ ।। १८

महानुभावानन्देन प्रेमानन्दः स्म खेलति । चैतन्यानन्दमुनिना पूर्णानन्दस्तथा मुनिः ।। १९

रेमाते भजनानन्दः परमानन्द इत्युभौ । स्वयंप्रकाशानन्दश्च वृद्धात्मानन्द इत्यभौ ।। २०

रेमे च राघवानन्दो ज्ञानानन्देन साधुना । रेमाते चाद्बुतानन्दः सर्वज्ञानन्द इत्युभौ ।। २१

आत्मानन्देन भगवदानन्दोऽरंस्त तत्क्षणम् ।योगानन्दशिवानन्दौ रेमाते च तथेतरे ।। २२

मुकुन्दानन्दवर्णीन्द्रो जयानन्देन वर्णिना । सह सोमेन सूरश्च रेमे भृगुजिताऽलयः ।। २३

हेमन्तसिंहेन समं वास्तुश्चिक्रीड भूपतिः । साकं च मयरामेण क्रीडां चक्रे प्रयागजित् ।। २४

चिक्रिड यौवनाश्वश्च कुबेरेण समं तदा । द्वन्द्वीभूयैवमन्येऽपि रेमिरे मुदिता जनाः ।। २५

अजानन् रेचकक्रीडां सोमो रङ्गभृतं घटम् । सद्यो गृहीत्वा सूरस्य मूर्ध्न्यसिञ्चद्धसन्भृशम् ।। २६

तदा सूरो बलिष्ठत्वात्पातयित्वैव तं भुवि । गुलालप्रसृतैस्तस्य मुखं नेत्रेऽभरद्धसन् ।। २७

सूरेण पातितं सोमं ब्रह्मानन्दोऽवलोक्य च । नित्यानन्दं विसृज्यैव सूरं जग्राह तत्क्षणम् ।। २८

रङ्गक्लिन्नं मुखं तस्य गुलालेन व्यलिम्पयत् । तावत्सूरोऽपि जग्राह तं शिखायां स्वपाणिना ।। २९

गुलालं पुष्टमुष्टयैव तद्दृशोः प्रक्षिपन्भृशम् । चकार सम्भ्रान्तमिव तं मुनिं स तु भूपते ! ।। ३०

दृग्रोधव्याकुलस्तस्य खल्वाटत्वं स विस्मृतः । पुनः पुनः शिखां धर्तुं करं चिक्षेप शीर्षणि ।। ३१

तदा हसन् स भगवानपीठादुत्प्लत्य सत्वरम् । सूरं गृहीत्वा तन्मूर्ध्नि न्यषिञ्चद्रङ्गगर्गरीम् ।। ३२

गुलालस्याञ्जलींस्तस्मिन्प्रक्षिप्य च पुनः पुनः । जनयामास लोकानां पद्मरागोच्चयभ्रम् ।। ३३

अकस्मान्मयरामेण प्रक्षिप्तेनावरुद्धदृक् । गुलालेनाशु जग्राह रङ्गकुम्भं प्रयागजित् ।। ३४

रङ्गबिन्दोः पातभयान्स्वमुखे स तु वाडवः ।नतपृष्ठो हासितेशः कुम्भं दृाऽपलायत ।। ३५

द्वन्द्वशः क्रियमाणासु क्रीडास्वित्थं स ईश्वर । रङ्गक्लिन्नां दर्शयितुं सर्वानैच्छन्निजां तनुम् ।। ३६

अश्वं जविनमारुह्य गीयमानगुणो जनैः । प्रदक्षिणीचकाराशु जनसङ्घानशेषतः ।। ३७

रङ्गं गुलालं च भृशं प्रक्षिपन्तः पदेपदे । तमन्वधावन्मुनयो जनयूथानि च प्रभुम् ।। ३८

एवं परिभ्रमन् दत्त्वा सर्वेभ्योऽपि स्वदर्शनम् । महानैवेद्यसमयं ज्ञात्वा पद्माकरं ययौ ।। ३९

तत्र कृत्वा जलक्रीडां स्नत्वा भक्तैः सहाखिलैः । स्वस्वस्थानं जनान् गन्तुमाज्ञाप्यायात्स्वकेतनम् ।। ४०

तत्र स्नत्वा भगवते नरनारायणाय सः । नैवेद्यमर्पयामास षट्पञ्चाशद्विधं नृप ! ।। ४१

ततो नीराजनं कृत्वा प्रेङ्खादुत्तार्य तं पुनः । सम्पूज्य दत्त्वा विप्राय मुन्यादीन्समभोजयत् ।। ४२

पीताम्बरं शोणपटेन बद्ध्वा दृढं स कटयां परिवेषयंस्तान् ।
द्रुतक्रमाङ्घ्रयम्बुज आर्षपङ्क्तिष्वानन्दयामास मुहुश्चरंस्तान् ।। ४३

भक्ष्यैर्भोज्यैश्च लेह्यैश्च पक्वान्नैर्विविधैस्तथा । प्रचुराज्यसितामिश्रैस्तर्पयामास तान् प्रभुः ।। ४४

ततो भुक्त्वा स्वयं स्वामी स्वानुजावास आत्मनः । स्थानमेत्य विशश्राम मुहूर्तद्वितयं नृप ! ।। ४५

पुनरुच्चं निजं पीठमारुरोह स सत्पतिः । सूर्यश्चास्तगिरिं प्रापद्दीपिकाश्च दिदीपिरे ।। ४६

नामसङ्कीर्तनं कृत्वा भक्तैः साकं तदाऽगतैः । उपावीविशदेतांश्च हरिः स्वकरसंज्ञाया ।। ४७

आलोकयन् सदसि तान्सहसोपविष्टांस्तूष्णींस्थितान्स्ववदनाहितदृष्टिवृत्तीन् ।
भक्तव्रजानथ तदीयहितोद्यतोऽसौ राजन्नशिक्षयदनन्तगुणाढय इत्थम् ।। ४८


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे रङ्गकीडानिरूपणनामाऽष्टपच्चाशत्तमोऽध्यायः ।।५८।।