अथ एकोनषष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच-


श्रूयतां मद्वचो भक्ताः ! सर्वेषां वच्म्यहं हितम् । नोल्लङ्घया क्वापि मर्यादा शास्त्रीया हि मदाश्रितैः ।। १

पुम्भिः स्त्रीभिस्त्यागिभिश्च सर्वैरेव मदाश्रितैः । स्वस्वधर्मस्थितैर्नित्यं सङ्गः कार्यः सतां सताम् ।। २

घोरे कलौ युगे ह्यत्र जीवान् संसृतिबन्धनात् । सद्यो मोचयितुं शक्ताः सन्त एवामलान्तराः ।। ३

लक्षणैरेव साधुत्वासाधुत्वे सदसत्स्थितैः । विज्ञातव्ये स्वया बुद्धया सेव्याः सन्तस्ततः सदा ।। ४

सदाभासा हि बहवो वञ्चयन्ति जनान्भुवि । तस्मात्तेऽपि परीक्ष्यैव दूराद्धेया मुमुक्षुभिः ।। ५

स्त्रीद्रव्यरससंसक्तास्तदर्थं जनवञ्चकाः । बाह्यतस्त्यागिवेषा ये ते ज्ञोयाः कलिरूपिणः ।। ६

स्त्रैणानामसतां तेषां मूढानां खण्डितात्मनाम् । योषित्क्रीडामृगाणां च सङ्गः कार्यो न कर्हिचित् ।। ७

स्त्रैणसङ्गाद्यथा पुंसो भवेन्मोहश्च बन्धनम् । न तथाऽन्यप्रसङ्गेन जानीतेति सुनिश्चितम् ।। ८

ईदृशा बहृवः सन्ति साधुसंज्ञाः कलौ युगे । मुमुक्षाया अङ्कुरोऽपि यत्सङ्गान्नश्यति ध्रुवम् ।। ९

ततः प्रवृत्तिर्जीवानां निरयद्वार्षु हि त्रिषु । स्त्रीद्रव्यहिंसासंज्ञोषु जायते नात्र संशयः ।। १०

आदौ स्वभावतो लोकाः सन्ति सक्ता हि तत्त्रिके । तादृक्साधुप्रसङ्गाच्च सज्जन्तेऽतीव तेषु ते ।। ११

देहान्ते तादृशाः सन्तस्तच्छिष्याश्चाखिला जनाः । कुम्भीपाकेषु पच्यन्ते यावच्चन्द्रदिवाकरौ ।। १२

एतच्छ्रीमद्बागवते कपिलोऽगायदञ्जसा । श्रीकृष्णश्चैलगीतेन स्पष्टमाह सविस्तरम् ।। १३

तस्मान्नैवासतां सङ्गः कर्तव्यः क्वापि केनचित् । साधूनां सेवनीयानां लक्षणान्यथ वच्मि वः ।। १४

स्त्रीसङ्गमष्टधा त्यक्त्वा ब्रह्मचर्यं दृढं श्रिताः । तथैव धनमात्रस्य संसर्गं ये त्यजन्ति च ।। १५

मादकं नैव यत्किञ्चिद्बक्षयन्ति कदाचन । नानाविधरसास्वादं त्यक्त्वा जिह्वा जिता तु यैः ।। १६

मनोवाक्तनुभिर्ये च स्वपरद्रोहवर्जिताः । जितेन्द्रिया जितक्रोधा निर्वासनिकचेतसः ।। १७

देहादिषु पदार्थेषु निःस्नेहाः कृष्णसंश्रयाः । द्यूतादिव्यसनैर्हीना ये ते सन्तो मया मताः ।। १८

धनुर्मात्रान्तरेणैव स्त्रीभ्यो दूरे चरन्ति ये ।ऋषभार्षभवन्नित्यं निर्मानास्ते हि साधवः ।। १९

प्रमादादपि जातायां स्वकीयनियमच्युतौ । प्रायश्चित्तं यथोक्तं ये कुर्वते ते च साधवः ।। २०

एकाकिनो न गच्छन्ति यत्र कुत्रापि ये सदा । ऋते सतां साहचर्यात्ते ज्ञोया भुवि साधवः ।। २१

श्रीकृष्णश्रवणादीनि विनैकोऽपि क्षणः क्वचित् । येषां न वितथो याति ते सन्तो मम सम्मताः ।। २२

समागमस्तु कर्तव्य ईदृशानां सदा जनैः । हर्याश्रितानां साधूनां भवपाशान्मुमुक्षुभिः ।। २३

एतल्लक्षणहीनो यः स्वैरचारी भवेदिह । सत्साधुतुल्यवेषोऽपि दूराद्धेयोऽन्त्यजादिवत् ।। २४


सुव्रत उवाच-

श्रुत्वैतद्बगवद्वाक्यं निःश्वसन्त्योऽथ योषितः । तमेव स्वहितं प्रष्टुं प्रैरयन्स्वान्विचक्षणान् ।। २५

तासां दृक्करसंज्ञाभिर्ज्ञातभावाश्च ते नराः । वक्तुं विचक्षणा वाक्यमेवमूचुर्हरिं नृप ! ।। २६


जना ऊचुः-

सर्वाराध्य ! प्रभो ! स्वामिंस्त्वया सम्यक्प्रदर्शिता । सदसद्व्यक्तिरस्मभ्यं विज्ञोया या मुमुक्षुभिः ।। २७

स्त्रीद्रव्ययोस्तु संसर्गत्यागः प्रोक्तस्त्वया सताम् । मुक्तानां च मुमुक्षूणामविशेषेण सत्पते ! ।। २८

स्त्रीणामनुमतेनेदं तत्रास्माभिश्च पृच्छयते । तच्छ्रुत्वा भगवन्नद्य ब्रूहि तत्रोचितोत्तरम् ।। २९

सन्तोऽत्र द्विविधाः सन्ति मुक्ताश्चाथ मुमुक्षवः । मुक्ताः सिद्धदशां प्राप्ताः साधकास्तु मुमुक्षवः ।। ३०

महदेवान्तरं तेषामुभयेषां परस्परम् । वर्ततेऽतः कथं स्वामिन्साधने तुल्यता भवेत् ।। ३१

मुमुक्षूणां भवेदेव स्त्रीप्रसङ्गो हि बन्धदः । तेषामपक्वदोषत्वाद्युक्तं तद्वर्जनं प्रभो ! ।। ३२

ये तु सन्तो जितप्राणमनोबुद्धीन्द्रिया इह । स्वातन्त्र्येणैव देहे स्वे वर्तमाना मनीषिणः ।। ३३

ब्रह्मस्वरूपमात्मानं सम्प्राप्यैव समाधिना । नारायणं परंब्रह्म ये च साक्षादुपासते ।। ३४

प्रतिमेषोन्मेषमेव ये तं पश्यन्ति सर्वदा । मुक्तास्त एव सम्प्रोक्ताः सन्तःसंसारतारकाः ।। ३५

तेषां सग्दुणगानादौ को दोषो योषितां पुरः । स्त्रियश्च पुरुषास्तेषां सन्ति हेयतया समाः ।। ३६

मुक्तानां ब्रह्मनिष्ठानां यथेष्टाचरणं प्रभो ! ।न दोषायेति कतिचिद्विद्वांसोऽपि वदन्ति हि ।। ३७

न ब्रह्मस्थितिमाप्तानामङ्गस्पर्शोऽपि दोषकृत् । स्त्रीणां सम्भाषणे तर्हि को दोषस्तादृशां भवेत् ।। ३८

प्रदीप्तव्ह्नितुल्या हि ब्रह्मनिष्ठास्तु साधवः । लभन्ते खलु तत्साम्यं येऽत्र तत्सङ्गिनो जनाः ।। ३९

धनुर्मात्रान्तरे दूरादुपविश्य च योषिताम् । पुरः कृष्णकथाकीर्तौ तेषां दोषोऽत्र कः प्रभो ! ।। ४०

तादृशा यदि नो कुर्युस्तद्वार्तां योषितां पुरः । अधर्माद्वापि तद्रक्षां तदा स्त्रीणां गतिस्तु का ।। ४१

मुमुक्षवः साधका ये तत्कथास्ते तु सत्पते ! । योषितां पुरतो नैव कुर्युः स्वव्रतभङ्गतः ।। ४२

स्त्रैणा ये साधुवेषाश्च चरन्त्येकाकिनो भुवि । ते तु वार्ताः प्रकुर्वन्ति नारीणां पुरतः स्वयम् ।। ४३

तेभ्यस्तु क्वापि ता नैव शृण्वन्ति तत्कथा अपि । जानन्त्येव यतस्तास्तान् स्त्रैणान्धूर्तानिति प्रभो ! ।। ४४

तस्मात्स्त्रीषु कृपां कृत्वा कृष्णभक्तिविवृद्धये । मुक्तांस्तदग्रे तद्वार्तां कर्तुमाज्ञापय प्रभो ! ।। ४५

ब्रह्मचर्यं ह्यष्टविधं यत्त्वयात्र प्रकीर्तितम् । मुक्तानां तादृशानां तदस्तु सप्तविधं हरे ! ।। ४६


सुव्रत उवाच-

इति सम्प्रार्थितो लोकैः कल्याणायैव योषिताम् । सर्वधर्मरहस्यज्ञाः प्रोवाचेति हसन् हरिः ।। ४७


श्रीनारायणमुनिरुवाच-

शृण्वन्तु भो नराः सर्वे स्त्रियश्च मुनयस्तथा । कल्याणं स्याद्यथा स्त्रीणां तमुपायं वदामि वः ।। ४८

यथा कृष्णं श्रिता नार्यस्तत्कथामपि कर्हिचित् । पुंसः कुयोगिनो वक्त्रान्न शृण्वन्ति हितामपि ।। ४९

तथैव मुक्तपुरुषमुखादपि कथा हरेः । स्वातन्त्र्येण न वै श्रव्या स्त्रीभिः क्वापि विना नरात् ।। ५०

स्त्रीणामेव पुरो मुक्तः कुर्याच्चेत्तत्कथामपि । त्यागिधर्मच्युतः सद्यः स भवेन्नात्र संशयः ।। ५१

तस्य स्त्रैणस्य तु मुखाच्छृणुयाद्या च तत्कथाः ।सापि स्याद्भ्रश्यते धर्मात्ततो यात्यधमां गतिम् ।। ५२

महान्तं प्राप्नुतोऽनर्थ महापातकिनौ हि तौ । अब्रवीदिति मां पूर्वं श्रीरामानन्द उद्धवः ।। ५३

इयं वार्तैवमेवास्ति नास्ति कोऽप्यत्र संशयः । पुंसः स्त्री च पुमान्नार्या बुद्धिभ्रंशस्य कारणम् ।। ५४

पूर्वं हि बहवो मुक्ताः पुमांसश्च स्त्रियोऽपि च । अन्योन्यस्य प्रसङ्गेन भ्रष्टा याता अधोगतिम् ।। ५५

स्त्रीप्रसङ्गो न कर्तव्यो मुक्तेनापि कदाचन । श्रीमद्बागवतोक्तानि पद्यान्यत्र वदामि वः ।। ५६

सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः । मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ।। ५७

योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्युपभोगबुध्द्या पतङ्गवन्नश्यति नष्टदृष्टिः ।। ५८

मात्रा स्वस्रा दुहित्रा वा ना विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।। ५९

तस्माज्जितस्य मनसो विश्वासेन कदाचन । मुक्तो न कुर्यात्स्त्रीसङ्गं पुंप्रसङ्गं तथाऽबला ।। ६०

मदाज्ञापि न मन्तव्या स्त्रीप्रसङ्गो भवेद्यया । मुक्तैरपि तथा स्त्रीभिः पुंप्रसङ्गो भवेद्यया ।। ६१

भक्ता ! भवद्बिर्यत्तूक्तं प्रदीप्तानलसन्निभाः । मुक्ताः सन्तीति तत्सङ्गस्तासां भवति मुक्तये ।। ६२

तत्त्वाचारविरुद्धं हि सतां लोके च गर्हितम् । निन्दितं वेदशास्त्रेषु तन्मतं महतां न च ।। ६३

मुक्तप्रसङ्गो नारीणां मुक्तिहेतुरिदं वचः । एकस्मिन्नेव श्रीकृष्णे नित्यमुक्ते हि सम्भवेत् ।। ६४

कृष्णं विना तु मर्यादा वैदिकी येन येन च । उल्लङ्घिता स सोऽद्यापि लोके वेदे च निन्द्यते ।। ६५

ब्रह्मशङ्करशक्राश्च शशाङ्काङ्गिरसादयः । कामादुल्लङ्घय मर्यादां वैदिकीं गर्ह्यतां गताः ।। ६६

अस्तु प्रसङ्गो दूरेऽयं वीक्षामात्रमपि स्त्रियाः । मुक्तानामपि सिद्धानां पातित्यायैव जायते ।। ६७

यथेष्टाचरणं ये तु न दोषाय सतामिति । वदन्ति ते तु विज्ञोया महापातकिनो जनाः ।। ६८

तस्मान्मुक्तेषु शङ्काऽपि यथेष्टाचरणस्य तु । न क्वापि केनचित्कार्या यत्ते धर्मस्य रक्षकाः ।। ६९

प्राप्तोऽपि भक्तिं च दृढात्मनिष्ठां मुक्तोऽपि भक्ता ! वनिताप्रसङ्गात् ।
भ्रष्टो भवेत्स्त्री च तथाविधापि भ्रष्टा भवेदेव नरप्रसङ्गात् ।। ७० 


इति श्रीसत्सङ्गिजीवनेनारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे जनशिक्षायां सदसल्लक्षणेषु मुक्तानां यथेष्टाचरणनिषेधनिरूपणनामैकोनषष्टितमोऽध्यायः ।।५९।।