अथ षष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच-


मुक्तोऽपि पुरुषो यस्तु प्राप्तः सिद्धदशामिह । स्त्रीभ्यस्तेनापि भेतव्यमन्यथा पतितो भवेत् ।। १

अयं पुमानियं स्त्रीति भेददृष्टिर्न यस्य च । स्त्रीसङ्गाद्भ्रश्यते सोऽपि ऋष्यशृङ्ग ऋषिर्यथा ।। २

ऋष्यशृङ्गकथा सर्वैः श्रुताऽस्त्येव ततो जनाः ! । वर्तितव्यं सावधानैर्मुक्तैरपि मुमुक्षुभिः ।। ३

मदाज्ञाया वा धर्मस्य रक्षार्थमपि कर्हिचित् । स्त्रीप्रसङ्गो न कर्तव्यो मुक्तेनापि मनीषिणा ।। ४

मुक्तानामात्मनिष्ठानामपि स्रयवयवेक्षणम् । स्वस्थितेर्भ्रशकं ज्ञात्वा त्याज्यं तत्सर्वथा बुधैः ।। ५

अत्रेतिहासं प्राचीनं सर्वे शृण्वन्तु सादरम् । मुक्तावपि यथा क्लिष्टौ पुरा नारदपर्वतौ ।। ६

पर्वतो नारदश्चोभौ पुरा स्वस्त्रीयमातुलौ । ब्रह्मनिष्ठावृषी सिद्धौ पुण्यक्षेत्राणि चेरतुः ।। ७

तावेकदाम्बरीषस्य विष्णुभक्तस्य भूपतेः । गृहमाजग्मतू रत्नैर्विविधैरुपशोभितम् ।। ८

पूजितौ तेन राज्ञा तौ विविधैरुपचारकैः । तर्पितौ परमान्नेन सुखेनैव निषेदतुः ।। ९

तस्य राज्ञाोऽभवत्कन्या जयन्त्याख्या सुलोचना । रूपेणाप्रतिमा भूमौ शीललक्षणशालिनी ।। १०

तस्या योग्यं वरं प्रष्टुं भूपतिः स तु तावृषी । नत्वाभिवादयित्वा तामुपविश्याब्रवीदिदम् ।। ११


राजोवाच-

युवां हि ज्ञानसम्पन्नौ ब्रह्मनिष्ठौ तपोधनौ । नास्त्येवाविदितं किञ्चित्त्रिलोकीचारिणोर्हि वाम् ।। १२

पृच्छामि तौ युवां प्रश्नमेकं प्रश्नविदांवरौ । तच्छ्रुत्वा चोत्तरं ब्रूतं विचार्यैव यथोचितम् ।। १३

जयन्तीसंज्ञिाकेयं मे दुहितास्ति सुलक्षणा । निश्चेतुं नैव शक्नोमि तस्या योग्यं वरं त्वहम् ।। १४

तस्माद्युवां कृपां कृत्वा सर्वज्ञाौ सर्वसौख्यदौ । योग्यमस्या वरं ब्रूतं चिन्तया व्याकुलं हि माम् ।। १५

इत्युक्तौ तावृषी राज्ञा तां दैव विमोहितौ । सुलक्षणां च चार्वङ्गीं कामयामासतुः स्वयम् ।। १६

प्रार्थयामासतुर्भूपं निर्लज्जौ काममोहितौ । आवाभ्यां देहि ते कन्यां श्रेयस्तव भविष्यति ।। १७

तयोरिति वचः श्रुत्वा भूपतिः स तु विस्मितः । किञ्चिद्विचार्य तावाह जानन्नैष्ठिकतां तयोः ।। १८


राजोवाच-

ब्रह्मनिष्ठौ युवां ख्यातौ नैष्ठिकब्रह्मचारिणौ । कन्यां वृणीथो मे यत्तद्विनोदो वा ऋतं वचः ।। १९


तावूचतुः-

ब्रह्मचर्यं च गार्हस्थ्यं वनित्वं भिक्षुता तथा । भगवत्प्रीतये नास्ति भक्तिमेकां दृढां विना ।। २०

यस्मिन्कस्मिन्नाश्रमे वा स्थित्वा भगवतो यशः । गातव्यं मोक्षमिच्छद्धिस्तेन तुष्यत्यधोक्षजः ।। २१

एतावत्कालपर्यन्तं ब्रह्मचर्येण तद्यशः । वर्णितं कीर्तयिष्यावो गार्हस्थ्येनाथ भूपते ! ।। २२

निःसंशयस्ततो विद्धि राजन् ! निश्चय आवयोः । कन्याया ग्रहणेऽस्तीति देहि नौ त्वं सुखी भव ।। २३

वाक्यं श्रुत्वेति राजापि काममूढधियोस्तयोः । शापभीतोऽथ तावाह चिन्ताव्याकुलमानसः ।। २४

राजोवाच-एका कन्या मदीयेयं युवां द्वाविच्छथश्च ताम् । लोकशास्त्रविरुद्धं तद्दानं कुर्यामहं कथम् ।। २५

एकस्य भार्ये द्वे दृष्टे नैका भार्या द्वयोः क्वचित् । वरिष्यति ततः कन्या स्वयमेवेप्सितं वरम् ।। २६

प्रातः स्वयंवरं चास्याः कारयिष्यामि निश्चितम् । आगन्तव्यं युवाभ्यां च तत्र नारदपर्वतौ ! ।। २७

इत्युक्तौ तौ ततो यातौ चिन्तयन्तौ च तां हृदि । राजापि कारयामास स्वयंवरसभां ततः ।। २८

कन्या कामयते रूपं नान्यदित्यवधार्य तौ । तपसा विकृतं रूपं स्वं रम्यं कर्तुमैच्छताम् ।। २९

तयोरपीर्ष्या महती परस्परमभूज्जनाः ! । कन्या वरिष्यति ह्येकमिति हेतोः सकामयोः ।। ३०

अन्यस्य विकृतं रूपं स्वस्य रम्यं भवेदिति । गूढं स्वस्य त्वभिप्रायं नोचतुस्तौ परस्परम् ।। ३१

एकैकं वञ्चयित्वा तौ भक्ताभीष्टफलप्रदम् । वैकुण्ठे विष्णुमेवेशं रूपार्थं शरणं गतौ ।। ३२

तत्रादौ नारदो गत्वा नत्वा सत्वरमच्युतम् । स्वस्य भार्यासमीहां तु गूहमानोऽब्रवीदिदम् ।। ३३

अम्बरीषस्य कन्याया भविता श्वः स्वयंवरः । विनोदार्थं तत्र किञ्चिदागतोऽस्म्यत्र याचितुम् ।। ३४

भगवन्नद्य मे रूपं भवेत् स्त्रीणां मनोहरम् । तपःकृशं च मे गात्रं पुष्टं च बलवद्बवेत् ।। ३५

स्वयंवरात्तथारभ्य हरे ! सहचरस्य मे । वानरास्येन वैरूप्यं पर्वतस्य भवेदिति ।। ३६

तथास्त्विति हरिः प्राह नारदोऽपि मुनिस्तदा । अनङ्गमोहनं रूपं सद्यो लब्ध्वा भुवं ययौ ।। ३७

तावत्पर्वत आगत्य तथैवाभ्यार्थयद्धरिम् । सौरूप्यं स्वस्य देवर्षेः कप्यास्यत्वं स्वयंवरात् ।। ३८

तथास्त्विति तमप्याह सोऽच्युतः प्रहसंस्तदा । स्त्रीपाशबन्धनं माभूद्बक्तस्येति दयानिधिः ।। ३९

स पर्वतोऽपि सम्प्राप्य रूपमत्यद्बुतं ततः । नारदं भुवि सम्प्रापज्जयन्तीभजने रतम् ।। ४०

गूढेङ्गितौ सुरूपौ तौ प्रोचतुश्च परस्परम् । सुरूपोऽसि त्वमेवेति त्वां वरिष्यति सा वधूः ।। ४१

इत्थं वदन्तौ तौ रात्रिं तां तु दुःखेन निन्यतुः । वैशाखशर्वरी जाता तयोः कल्पनिशासमा ।। ४२

चक्रतू राजकन्याया निशि तौ गुणकीर्तनम् । अहो तस्य वपुः कान्तमहो तस्या नवं वयः ।। ४३

अहो भुजलता तस्या अहो तस्या मितं स्मितम् । तस्या मुक्ताफलानीव मधुराण्यक्षराण्यहो ।। ४४

पर्वतो नारदं प्राह जयन्त्या वदनाम्बुजम् । त्वया पूर्णेन्दुवद्दृष्टं किं वा फुल्लाम्बुजोपमम् ।। ४५

नारदः प्राह तं तस्या निष्कलङ्केन्दुराननम् । तत्पुरः क्व कलङ्कीन्दुः क्व वा तज्जलजं जडम् ।। ४६

एतां दशां च तौ प्राप्तावृषी स्त्र्यवयवेक्षणात् । प्रातरेवाम्बरीषस्य पुरमागत्य तस्थतुः ।। ४७

तद्रूपदर्शनादेव मुमुहुः पुरयोषितः । पौराश्च विस्मिताः सर्वे तावेवैक्षन्त यूथशः ।। ४८

स्वयंवरस्य वेलायां जग्मतुर्नृपसंसदि । तत्राहूता नृपेणान्ये राजानोऽपि समाययुः ।। ४९

कन्याप्रवेशनद्वारसमीपे तावुभावृषी । निषेदतुः शीघ्रमेव कन्यालाभाय कामुकौ ।। ५०

अम्बरीषोऽपि नृपतिर्मानयित्वा सभागतान् । उपावेशयदानम्य तौ तु वीक्ष्याऽप विस्मयम् ।। ५१

सभासदस्तत्र सर्वे दृा रूपं तयोर्नृपाः । सन्त्यज्यैव जयन्त्याशां तावेवैक्षन्त विस्मयात् ।। ५२

उभौ समानरूपौ हि मन्मथस्यापि मोहनौ । कं वरिष्यति सा कन्या त्विति संशिश्यिरेऽखिलाः ।। ५३

गृहीतवरमालाऽथ जयन्ती राजकन्यका । विवेश सभां तां च हरन्त्येव मनो नृणाम् ।। ५४

तदैव तावुभौ जातौ मर्कटास्यावृषी नराः ! । परस्परं वीक्षमणौ परमां मुदमापतुः ।। ५५

बुबुधे नारदश्चित्ते पर्वतं न वरिष्यति । अवैच्च पर्वतः कन्या नारदं न वरिष्यति ।। ५६

कन्या तु तावुभौ दृा भीता चक्रे पलायनम् । बोधिताऽप्यम्बरीषेण नाऽगच्छत्सा पुनः सदः ।। ५७

ततो राजा तावुपेत्य प्राह कन्या तु मे मुनी ! । भीता भवद्भ्यां नायाति गच्छतं तद्युवामिति ।। ५८

स्वस्ववक्रस्य वैकृत्यमजानन्तौ हि तावुभौ । प्रकल्प्य राज्ञाः कापटयं हताशाविदमूचतुः ।। ५९

आवां तपस्विनौ ज्ञात्वा राज्यैश्वर्यमदोद्धतः । कन्यां नैव ददासीति जानीवस्तव चेष्टितम् ।। ६०

आत्मज्ञात्वाभिमानेन मुनीनप्यवमानयन् । देहात्मबुद्धिस्त्वं मूढ ! भविष्यसि न संशयः ।। ६१

एवं निरपराधं तं राजानं भगवत्प्रियम् । शप्त्वा तस्य गृहात्क्रुद्धौ बहिर्निर्ययतुर्मुनी ।। ६२

विष्णुना भक्तरक्षार्थं तग्दृहे स्थापितं त्वथ । चक्रं सुदर्शनं शापाद्ररक्ष नृपतिं तु तम् ।। ६३

प्रतिहत्य गृहाच्छापं कामक्रोधाग्निदग्धयोः । तयोर्मुन्योः पृष्ठलग्नं तं कृत्वा चक्रमन्वगात् ।। ६४

सहसा तावुभौ दृा स्वपृष्ठे धूमराशिवत् । कृष्णवर्णं स्वशापं च विस्मयं प्रापतुस्तदा ।। ६५

प्रलयाग्निनिभं तावज्ज्वालामालाभयङ्करम् । चक्रं सुदर्शनं दृा चक्राते स्म पलायनम् ।। ६६

मर्कटास्यावुभावग्रे मध्ये तत्पृष्ठवल्गितः । शापस्तमोमयस्तस्य पश्चाच्चक्रमभूत्पथि ।। ६७

विवर्णौ म्लानवदनौ श्रमस्विन्नशरीरकौ । भक्तद्रोहगतज्ञानौ पलायेते स्म तावुभौ ।। ६८

भुवि सर्वेषु देशेषु प्रतिग्रामं गृहं गृहम् । पलायमानौ तौ यातौ पाहि पाहीति वादिनौ ।। ६९

निर्मानौ निर्मदौ चोभौ निर्लज्जौ यत्र यत्र तौ । पलाय्य गच्छतश्चक्रं तत्र तत्रान्वगाद्द्रुतम् ।। ७०

रथाङ्गदह्यमानाङ्गौ द्विजौ नारदपर्वतौ । दृा नरा मर्कटास्यौ नोचुः किञ्चिदतद्विदः ।। ७१

अदृष्टाश्रुतपूर्वां तां सम्प्राप्तावतिवेदनाम् । अधोलोकेषु सर्वत्र तौ च बभ्रमतुर्मुनी ।। ७२

अप्राप्य कञ्चित्त्रातारं तत्रापि च ततो मुनी । जग्मतुर्देवलोकांश्च क्रोशन्तावुच्चकैर्भृशम् ।। ७३

ऐन्द्रं वाह्नं च याम्यं च नैऋतं वारुणं तथा । मारुतं तौ च कौबेरं लोकमैशं च जग्मतुः ।। ७४

सविस्मयं तेऽपि देवास्तत्रस्थाश्च तयोर्दशाम् । विलोक्य तादृशीं किञ्चिन्नोचुश्चक्रभयाद्वचः ।। ७५

तावृषी सकलान्देवान्ब्रह्माणं शङ्करं तथा । नमन्तावपि न स्वस्य त्रातारं कञ्चिदापतुः ।। ७६

वैकुण्ठं च ततो यातौ पाहि पाहि हरे ! इति । आक्रोशन्तौ दूरतस्तौ नेमतुर्विष्णुमव्ययम् ।। ७७

दयालुः स हरिश्चक्रात्कृपया रक्षणं तयोः । कृत्वा भक्तस्य तं शापं स्वयं चाङ्गीचकार ह ।। ७८

एवं पुरा नारदेन पर्वतेन च भो नराः ! । सम्प्राप्तमतुलं कष्टं स्त्रिया ह्यवयवेक्षणात् ।। ७९

तस्मान्मुमुक्षुर्मुक्तो वा मद्बक्तः क्वापि योषितः । प्रसङ्गं न प्रकुर्वीत सर्वथा स्वहिताय हि ।। ८०

तथा मिथुनसक्तानां तिरश्चामपि दर्शनम् । मुक्तेनापि न कर्तव्यं किं पुनश्च मुमुक्षुणा ।। ८१

ऋषिः प्राक् सौभरिर्मुक्तो ब्रह्मनिष्ठो जितेन्द्रियः । ब्रहद्व्रतादभूद्भ्रष्टो मीनमैथुनदर्शनात् ।। ८२

ज्ञानस्य भक्तेरथवा बलेन मद्वाक्यमुल्लङ्घय मनोभवार्तः ।

यः स्वैरवर्ती भविता नरोऽसौ धर्मच्युतः प्राप्यस्यति भूरि कष्टम् ।। ८३


इति श्रीसत्संङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे जनशिक्षायां स्त्रीप्रसङ्गान्नारदपर्वतयोर्दुर्दशाप्राप्तिनिरूपणनामा षष्टितमोऽध्यायः ।।६०।।