अध्यायः ६१

श्रीनारायणमुनिरुवाच


नारीणां ब्रह्मनिष्ठानामपि पातित्यकृत्किल । निरीक्षणादिकं पुंसः स्त्रीभिस्त्याज्यं हि तत्ततः ।। १

अत्र वः कथयिष्यामि कथां भक्ताः ! पुरातनीम् । यथा भ्रष्टाऽभवत्पूर्वं नैष्ठिकी देवयान्यपि ।। २

आसीत्पुरा देवयानी कन्या शुक्रस्य शोभना । पितुः प्रसादात्सम्प्राप्ता बाल्य एवात्मनिष्ठताम् ।। ३

सम्यग्योगकलायां च निपुणा धर्मशास्त्रवित् । प्रगल्भा नूतनं काव्यं कर्तुं स्वयमुदारधीः ।। ४

स्वशिष्यतामुपेतानामासुरीणां सहस्रशः । कन्यानां बोधने दक्षा शुक्रवद्बहुयुक्तिभिः ।। ५

शुक्रश्च स्वां दुहितरं प्राणेभ्योऽप्यतिवल्लभाम् । अनेकगुणसम्पन्नां प्रेम्णैवालालयत्सदा ।। ६

अथैकदा कविस्तां च प्राप्तां दशमवत्सरम् । दृा वराय योग्याय जातुमैच्छद्यथाविधि ।। ७

ततो दुहितरं प्राह सोऽतिस्नेहेन भार्गवः । कन्ये ! बुद्धिमति ! प्रेष्ठे ! शृणु मे परमं वचः ।। ८

प्राप्ता त्वं दशमं वर्षं दानकालस्ततोऽधुना । वर्तते तव तस्मात्त्वं ब्रूहि मे स्वेप्सितं वरम् ।। ९

महर्षये वा देवाय नृषु वा ब्राह्मणाय वै । ददामि त्वामहं कन्ये ! ब्रूहि सत्यं मनोगतम् ।। १०

दानकाले न यः कन्यां ददाति ब्राह्मणो भुवि । उचिताय वरायासौ ब्रह्महत्यामवाप्नुयात् ।। ११

तस्माद्वरं कथय मां यस्मै रोचेत ते मनः । अथवा स्वेच्छयैवाहं ददामि त्वां महर्षये ।। १२

इत्युक्त्वा देवयानी सा पितरं प्राह सस्मितम् ।मम नास्त्येव हि प्रीतिः कस्मिंश्चित्पुरुषे पितः ! ।। १३

तपो मे रोचतेऽत्यन्तं पुनःसंसृतिनाशनम् । यावज्जीवं तपः कर्तुं निश्चयो हि मया कृतः ।। १४

तस्मान्मद्दानसङ्कल्पं त्यक्त्वा स्वमनसः पितः ! । स्वस्थो भव महाप्राज्ञा ! मच्चिन्तां मा कृथा वृथा ।। १५

इच्छा यस्या भवेत्पुंसि तददाने महर्षिभिः । दोषः स्मृतोऽस्ति शास्त्रेषु विरक्ताया न वै क्व चित् ।। १६

कन्यावाक्यमिति श्रुत्वा स तु शुक्रो महामतिः । नैष्ठिकव्रतमाहात्म्यं जानन्नोवाच किञ्चन ।। १७

बाल्य एव विरक्तं च तस्या योगस्थितं तथा । दृा प्रसन्नः शुक्रोऽभूत्तत्प्रियं यच्चकार तत् ।। १८

अथ काले च कियति व्यतिक्रान्ते कवेर्गृहे । कचो बृहस्पतेः पुत्रो विद्या अध्येतुमागमत् ।। १९

शुक्राज्ञाया स्थितस्तत्र विद्या अध्यैत सोऽपि च । दृा तद्रूपसौन्दर्यं देवयानी मुमोह सा ।। २०

दिने दिने निजं धर्मं योगाभ्यासात्मचिन्तने । त्यक्त्वा शनैः शनैः सा च तच्छुश्रूषारताऽभवत् ।। २१ 

पीडिता मन्मथेनाथ प्रार्थयामास तं रहः । स्वाङ्गप्रदर्शनाद्यैश्च लोभयन्ती गतत्रपा ।। २२

त्वं मे भव पतिर्वीर ! तव योग्यास्मि सर्वथा । त्वयि मे रमते चित्तं न मां त्वं त्यक्तुमर्हसि ।। २३

गुरुपुत्र्याऽर्थितस्त्वेवं कामविह्वलया कचः । धर्मविच्च महान्धीरस्तामुवाचाविवेकिनीम् ।। २४

अवाच्यं किमिदं भद्रे ! भाषसे मां मुधा वचः । भगिनी गुरुपुत्री त्वं लोकशास्त्रविगर्हितम् ।। २५

इति प्रत्युदिता सापि तेन धर्मविदा तदा । पुनः पुनस्तमेकान्ते एवमेवाऽर्थयत्कुधीः ।। २६

प्रत्याख्यानं प्रकुर्वन्तं मुहुस्तं काममोहिता । क्रुधा शशाप सा मूढा विद्या ते निष्फलाऽस्त्विति ।। २७

प्रतिशप्ता तेन सापि मा ते विप्रो वरोऽस्त्विति । स्वर्गं जगामाथ कचो विमना विफलश्रमः ।। २८

अष्टोत्तरसहस्राब्दा वयसा देवयान्यपि । वव्रे ययाति नृपतिं क्षत्रियं स्वैरिणी यथा ।।२९

एवं सा ह्यात्मनिष्ठापि पुरुषस्येक्षणादिभिः । भ्रष्टा बृहद्व्रताज्जाता कुलटेवातिनिस्त्रपा ।। ३०

पितुः शिष्यं भ्रातृतुल्यं मैथुनायाऽर्थयत्तथा । धर्मज्ञां ब्राह्मणं धीरमधर्मेण शशाप च ।। ३१

स्वतश्च नीचजातियं चकार पतिमात्मनः । दुर्लभं ब्राह्मणत्वं च त्यक्त्वा क्षत्रत्वमाप सा ।। ३२

सर्वोत्कृष्टं भृगुकुलं लाञ्छयामास साऽबला । तपःकृच्छ्रादिकं तस्याः श्रममात्रफलं ह्यभूत् ।। ३३

तथैव रेणुका भार्या जमदग्नेः पतिव्रता । गन्धर्वराजमद्राक्षीदुदकार्थं नदीं गता ।। ३४

तद्रूपदर्शनात्सापि चक्रे स्वहृदि तत्स्पृहाम् । पत्युः क्रोधेन सा प्रापदपमृत्युव्यथां ततः ।। ३५

तस्माद्धि ब्रह्मनिष्ठाभिरपि स्त्रीभिः कदाचन । पुंवीक्षणादिकं नैव कर्तव्यं स्वविनाशकृत् ।। ३६

मुमुक्षवः स्युर्या नार्यस्तास्तु सत्सङ्गिनो मुखात् । भ्रातुः पत्युः पितुर्वापि शृणुयुः श्रीपतेः कथाम् ।। ३७

मातामहान्मातुलाद्वा पुत्राद्वाऽपि पितामहात् । तद्वार्तां शृणुयुर्भक्त्या श्रुतां तैश्च सतां मुखात् ।। ३८

श्रुत्वा च तत्कथा स्त्रीभिः कीर्तनीया परस्परम् । संशये सति पुंद्वारा प्रष्टव्याः सन्त एव च ।। ३९

विधवाभिस्तथा स्त्रीभिः कथा पौराणिकी हरेः । विप्रेण वाच्यमानाऽग्रे पुंसां श्रव्या च दूरतः ।। ४०

श्रीकृष्णगुणसम्बद्धगीतपद्यादिपाठनम् । समीपसम्बन्धवतः पित्रादेः कार्यमेव तत् ।। ४१

स्वग्रामे वा परग्रामे धर्मवैराग्यभक्तिभिः । वृद्धा या योषितः स्युस्ता मान्या राधा रमा यथा ।। ४२

तासां समागमः कार्यः प्रायशोऽत्र मुमुक्षुभिः । नारीभिः श्रेयसे स्वासां स्थेयं तत्प्रोक्तवर्त्मनि ।। ४३

जन्माष्टम्यादिषु हरेरुत्सवेषु तु यज्जनाः । कार्यं स्त्रीभिः शृणुत तत् सन्मण्डलसमागमे ।। ४४

सतां वासस्थलं वप्रवृत्याद्यैश्चेदनावृतम् । तर्हि पित्रादिभिः साकं योषाभिस्तत्र गम्यताम् ।। ४५

एनेकशो जनानां च समुदायेऽथ तत्स्थले । स्त्रीभिः स्त्रीषूपवेष्टव्यं पुम्भिः पुंसु न चान्यथा ।। ४६

तत्र पुंसः प्रति हरेः कुर्वतां च कथाः सताम् । मुखाद्दूरस्थिताभिस्ताः श्रोतव्याः स्त्रीभिरादरात् ।। ४७

एवमेव निजग्रामे विनाप्युत्सववासरम् । आगच्छेयुर्यदा सन्तो महान्तो हि तपस्विनः ।। ४८

तदानीमपि योषाभिर्जनसङ्घे यथा पुरा । स्वजनैः सह गन्तव्यं स्थातव्यं च यथोचितम् ।। ४९

वृतिवप्रावृते स्थाने सतां स्त्रीभिः कदाचन । न प्रवेष्टव्यमित्याज्ञा मामिका सर्वयोषिताम् ।। ५०

मदाज्ञां या समुल्लङ्घय प्रविशेत्तत्र निर्भया । कृत्यैव सा तु विज्ञोया नारी पापात्मिका भुवि ।। ५१

दर्शनार्थमपि स्त्रीभिः स्वेष्टदेवस्य कर्हिचित् । गन्तव्यं नैव रात्रौ तु विना द्वावुत्सवौ जनाः ! ।। ५२

जन्माष्टम्युत्सवो यर्हि मम जन्मोत्सवस्तथा । तदा स्त्रीभिर्दर्शनार्थं निशि गम्यं सह स्वकैः ।। ५३

राक्षसाः कामरूपा हि धर्मभ्रंशकरा निशि । चरन्तीति तदा गम्यं सावधानाभिरेव हि ।। ५४

सतां समागमस्त्वेवं स्त्रीणां निःश्रेयसाय हि । पारम्पर्येण साक्षाच्च कर्तव्यत्वेन वर्णितः ।। ५५

या आचरिष्यन्ति युवत्य इत्थमेधिष्यते प्रेम हरौ हि तासाम् ।
स्थितिश्च धर्मेऽपि भविष्यतीति ता ब्रूत यूयं वनिताः समस्ताः ।। ५६


इति श्रीसत्संङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे जनशिक्षायां पुरुषप्रसङ्गाद्देवयानीदुर्दशानिरूपणनामैकषष्टितमोऽध्यायः ।।६१।।