श्रीनारायणमुनिरुवाच
गृहस्थाः पुरुषा ये स्युः परस्त्रीसङ्गवर्जनम् । सर्वथा तैः प्रकर्तव्यमिहामुत्र सुखेप्सुभिः ।। १
गृहिणां च स्त्रियो याः स्युस्ताभिः पुंसः परस्य तु । प्रसङ्गः सर्वथा त्याज्य उद्वाह्याभिर्विशेषतः ।। २
गृहस्थैरपि संत्याज्यः संसर्गो मद्यमांसयोः । पलाण्डुलशुनादेश्च तथा मादकवस्तुनः ।। ३
चातुर्वर्ण्य जनैर्भक्ताः ! स्वज्ञातेरपि कर्हिचित् । नैवोच्छिष्टं भक्षणीयमग्निपक्व दिकं विना ।। ४
भङ्गागञ्जाहिफेनानि तमालं त्रिविधं तथा । मच्छ्रितो नैव सेवेत द्यूतं स्तेयं तथानृतम् ।। ५
दुग्धं घृतं च पानीयं नैव प्राश्यमगालितम् । क्रोधेर्ष्यामानहिंसाश्च हातव्या गृहिणापि च ।। ६
देवार्थं वापि पित्रर्थं न कार्यं जीवहिंसनम् । स्वर्गार्थमपि तीर्थादौ नात्मघातश्च कर्हिचित् ।। ७
मत्स्य ग्राहस्य यत् पापं षण्मासाभ्यन्तरे भवेत् । एकाहे तत्समं ज्ञोयमपूतं यो जलं पिबेत् ।। ८
अपूतजलपाने हि मांसभक्षणसम्भवात् । पुराणे दोष इत्युक्तः पेयं तग्दालितं जलम् ।। ९
सांसारिकपदार्थेषु न विषज्जेतमूढवत् । सत्सु स्नेहं प्रकुर्वीत विशेषेण गृहाश्रमी ।। १०
अच्छेद्यैरपि शास्त्राद्यैः पाशैः सांसारिकैर्दृढम् निबद्धमपि सन्तोऽत्र मोचयन्ति जनं किल ।। ११
स्वधर्मस्थगृहस्थेभ्यस्त्यागिभ्यश्च विशेषतः । कृष्णवार्ताश्रुतिः कार्या गृहस्थैस्तु मुमुक्षुभिः ।। १२
गृयिाद्यो धनं त्यागी वार्तां कुर्याच्च यः स्त्रिया । तस्माद्वार्तां हरेः श्रुत्वा गृही चान्द्रायणं चरेत् ।। १३
स्वग्रामे धर्मवृद्धस्य गृहे सायं समेत्य च । तन्नामकीर्तनं कार्यं तत्कथाश्रवणं तथा ।। १४
तन्मन्त्रजपमालानां यथाशक्ति निरन्तरम् । सङ्खयया नियमः कार्यः सर्वैरपि गृहस्थितैः ।। १५
उपविश्य तथैकान्तै ध्यात्वा प्रत्यहमेव तम् । कर्तव्या मानसी पूजा मनोमलविशोधनी ।। १६
वर्णाश्रमोचितं स्वस्य वेदेन विहितं तु यत् । कर्मषट्कं द्विजैस्तच्च कार्यं भक्तिसमन्वितम् ।। १७
स्वधर्मस्य च्युतौ क्वापि जाते वा पापकर्मणि । निष्कृतिस्तस्य कर्तव्या सर्वैरपि मदाश्रितैः ।। १८
अज्ञानात्तु सकृत्पापे कृते कर्मणि वै जनाः । मन्वादिभिः स्मृतः पूर्वैः प्रायश्चित्तविधिर्नृणाम् ।। १९
प्रायश्चित्तं चिकीर्षुर्यो धर्मभङ्गस्य वैनसः । स्नत्वा स शरणं गच्छेत्पर्षदं संयताञ्जलिः ।। २०
दश वा सप्त पञ्चापि त्रयो वाऽध्यात्मवित्तमः । धर्मनिष्ठाः सत्यपराः सन्तः पर्षत्प्रकीर्तिता ।। २१
नैव लक्षेण मूर्खाणां नचैवाधर्मवादिनाम् । पर्षद्बवेन्न लुब्धानां न चापि पक्षपातिनाम् ।। २२
न सा वृद्धैर्न तरुणैर्न सुरूपैर्धनान्वितैः । त्रिभिरेकेन पर्षत्स्याद्विद्वद्बिर्विदुषापि वा ।। २३
श्रुताध्ययनसम्पन्नः सत्यवादी जितेन्द्रियः ।सदा धर्मरत शान्तो यः स पर्षत्त्वमर्हति ।। २४
वयसा तनवोऽपि स्युर्यदि धर्मविदो द्विजाः । त एव वृद्धा विज्ञोया न मूर्खाः पलिता वृथा ।। २५
यत्र सत्यं तत्र धर्मो ह्यधर्मस्त्वितरत्र च । धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।। २६
निष्कृतौ व्यवहारे च व्रतस्यादेशने तथा । धर्मं वा यदि वाऽधर्मं पर्षद्यत्प्राह तद्बवेत् ।। २७
ज्योतिषं व्यवहारं च प्रायश्चितं चिकित्सितम् । अजानन्योऽन्यथा ब्रूयात्स महापातकी भवेत् ।। २८
पर्षदुक्तक्रियाचारात्पातकी तु भवेच्छुचिः । तत्रोक्तो यद्यधर्मः स्यात्पर्षत्तेन तु लिप्यते ।। २९
तस्मात्सत्यं समाश्रित्य धार्मिकैः पापभिरुभिः । धर्म एव हि वक्तव्यः पर्षद्विप्रैर्न चेतरः ।। ३०
स्त्रीणां च बालवृद्धानां क्षीणानां कुशरीरिणाम् । उपवासाद्यशक्तानां कर्तव्योऽनुग्रहश्च तैः ।। ३१
ज्ञात्वा देशं च कालं च वयः सामर्थ्यमेव च । कर्तव्योऽनुग्रहः सद्बिर्ब्राह्मणैर्धर्मवेदिभिः ।। ३२
लोभान्मोहाद्बयान्मैत्र्याद्यदि कुर्युरनुग्रहम् । नरकान् यान्ति ते मूढा रौरवान्नात्र संशयः ।। ३३
धार्मिकैरेव मन्वाद्यैर्धर्मविद्बिः पुरातनैः । धर्मः प्रोक्तोऽस्ति न त्वन्यैस्ततो वाच्यो विचार्य सः ।। ३४
देशाचारं कुलाचारं ग्रामाचारं विबुध्य च । शास्त्राचारः प्रवक्तव्यः सहसा न तु कर्हिचित् ।। ३५
पर्षदुक्तप्रकारेण पातकी व्रतमाचरेत् । तेनैव हि भवेच्छुद्धस्त्वन्यथा नरकं व्रजेत् ।। ३६
रहस्यपापकर्मा तु शास्त्रं दृा स्वयं बुधः । यथोक्तनिष्कृतिं कुर्यादन्यस्त्वापृच्छय सद्बुधम् ।। ३७
बालस्य नैव षष्ठाब्दात्पूर्वं पातकमस्ति हि । न राजदण्डस्तस्यास्ति प्रायश्चित्तं न विद्यते ।। ३८
उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चितं चरेत्भ्राता पित्रादिर्वा गुरुः स्वयम् ।। ३९
एकादशाब्दतो बालः षोडशाब्दावधि स्वयम् । प्रायश्चित्तार्धं कुर्वीतं वृद्धरोगिस्त्रियस्तथा ।। ४०
पापनिष्कृतिकर्तैव पुमान् स्त्री चैति सग्दतिम् । तदकर्ता तु निरयान्नीचयोनीश्च याति हि ।। ४१
कृत्वा यो दुष्कृतं तस्य नैव कुर्वीत निष्कृतिम् । तत्सङ्गादपि पापं स्यादतः कार्यो न सोऽपि च ।। ४२
गृहस्थैस्त्यागिभिश्चापि योषाभिश्च यथोचितम् । स्वपापनिष्कृतं कृत्वा पाल्याः स्वनियमा दृढम् ।। ४३
सांसारिके सुखे तुच्छे त्यक्त्वाऽसक्तिं सदा जनैः । वासुदेवे विधातव्या रतिः सर्वैर्मदाश्रितैः ।। ४४
सा तु स्याच्छ्रद्धया नित्यं स्वधर्माचरणेन च । जिज्ञासया तन्महिम्नो योगेनाध्यात्मिकेन च ।। ४५
तद्बक्तानां सेवनेन तत्कथाश्रवणेन च । स्त्रीद्रव्यरससक्तानां सङ्गत्यागेन सर्वथा ।। ४६
अन्यत्र तग्दुणेभ्यश्च सन्तोषेणाप्यहिंसया । तत्कीर्तनेन च यमैर्नियमैश्चाप्यनिन्दया ।। ४७
तितिक्षया च द्वन्द्वानां तन्नामस्मरणेन च । रतिः कृष्णे भवेन्नणां तद्बक्त्त्या तु विशेषतः ।। ४८
संसृतेः स्याद्वयवच्छेदो भक्त्यैव परया हरौ । वैराग्यं च दृढं ज्ञानं भक्त्यैव लभते पुमान् ।। ४९
भक्त्यैव स प्रसन्नान्योपायेन केनचित् । तस्मान्निष्कपटा यूयं भक्तिं कुरुत सर्वथा ।। ५०
सुव्रत उवाच
इत्थं निजाश्रितजनानुपदिश्य धर्मं भक्तिं च भक्तितनयो नृपते ! प्रसन्नः ।
स प्रैरयन्मुनिगणान् गुणगायनार्थं विष्णोर्जनाश्च जगृहुः शिरसा तदुक्तीः ।। ५१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे जनशिक्षायां प्रायश्चित्तविधिनिरूपणनामा-द्विषष्टितमोऽध्यायः ।।६२।।