अध्याय - ६३

सुव्रत उवाच


मुक्तानन्दस्तदा वीणां वादयन् षट्पदीं जगौ । गुर्जरीसंज्ञारागेण तालो यत्रैकतालिका ।। १

रमतां सततं सततमखे त्वयि मानसं मम सखे ! ।। ध्रुवपदम् ।
अशरण शरणे भवभयहरणे बहुतरकरुणालये । 
सुखकरचरिते मुनिवरविदिते गुणगणवरुणालये । रमतां सततं. ।। २

धृतसितवसने कृतमितहसने रुचिरचिकुरराजिते ।
शशिनिभवदने द्युतिजितमदने सकलसुरसभाजिते । रमतां सततं. ।। ३

प्रविततनयने क्षणजितजयने विविधकुसुमहारके ।
तततरदलिके कृतवरतिलके निजजनसुखकारके । रमतां सततं. ।। ४

परसुखनिलये परदरविलये सुररिपुमतिमोहने ।
अघचयहरणे सुखचयकरणे निगमगरसदोहने । रमतां सततं. ।। ५

हृतसुरशमले करधृतकमले परिधृतपुरुभूषणे ।
कलिबलकदने शुभमतिसदने परिहृतनिजदूषणे । रमतां सततं. ।। ६

प्रशमितकोपे कृतमदलोपे मुनिवरगणनन्दिते ।
अतिमृदुहृदये निजजनसदये सुरनरमुनिवन्दिते । रमतां सततं. ।। ७

गीत्वेति षट्पदीमादौ पद्यैः स प्राकृतैस्ततः ।
गायति स्म गुणान्भक्त्या वासुदेवस्य भूपते ! ।। ८

ब्रह्मानन्दादयश्चान्ये मुनयो गानकोविदाः ।
तमेवानुजगुः प्रीत्या कुर्वन्तः स्वरपूरणम् ।। ९

आरब्धे गायने तैश्च हरिः सदयया दशा ।
पर्यैक्षत निजान्भक्तान्ददत्तालं करेण च ।। १०

सहस्रशस्तत्र नराश्च नार्यः समाधिमापुः कृपयैव तस्य ।
अलौकिके ह्यक्षरधाम्नि ते च तमेव कोटयर्करुचिं ह्यपश्यन् ।। ११

चतुर्भुजं चाष्टभुजं च केचित्तं वै द्विबाहुं ददृशुश्च केचित् ।
तत्तन्महाधामसु तत्तदीयैः संसेवितं शक्तिसमृद्धिभृत्यैः ।। १२

व्युत्थाय ते यद्यदलौकिकं स्वे हृदम्बरेऽचक्षत तत्तदेव ।
सम्पृच्छयमानान्बहुधा स्वबन्धून्यथावदूचुः किल तत्र तत्तत् ।। १३

सन्दिग्धचित्ताश्च तदीश्वरत्वे ये केचिदासन्प्रथमं जनास्ते ।
आश्चर्यमालोक्य निशम्य चैतत् सर्वेश्वरं तं विविदुर्यथावत् ।। १४

सम्बन्धिनः स्वान्भगवत्सकाशान्नेतुं गृहांस्तत्र समागता ये ।
ते दुष्टजीवा अपि तत्प्रतापं दैव तस्याश्रयमाशु चक्रुः ।। १५

आनन्दयित्वेति जनाञ्जनेशः स्वं स्वं निवासं प्रति गन्तुमेव ।
आदिश्य रम्यं पटमण्डपं स्वं समेत्य तस्मिन्निषसाद दैविः ।। १६

स एवमेव प्रतिवासरं स्वानानन्दयन्भक्तजनान् समेतान् ।
उवास तत्राखिलसौख्यकारी यशः स्वकीयं प्रथयन्पृथिव्याम् ।। १७

यावन्त्यहानि भगवान्न्यवात्सीत्तत्र पत्तने ।
दिने दिनेऽधिकं तत्र स्नेहो नणामवर्धत ।। १८

तत्तद्देशीयलोकानां तत्र पाकक्रिया अपि ।
प्रत्यहं नूतना आसन्नुत्तरोत्तरसद्रसाः ।। १९

क्वचिद्दिने सभायां स प्रोचे वर्णाश्रमोचितान् ।
धर्मान्वेदेन विहितान् कृष्णभक्तिसमन्वितान् ।।२०

कस्मिंश्चिद्दिवसे ज्ञानं वैराग्यं च क्वचित्प्रभुः ।
भक्तिं निरूपयामास क्वचित्सदसि लक्षणैः ।। २१

राजनीतिं क्वचित्प्राह दानधर्मांश्च कुत्रचित् ।
मोक्षधर्मान् क्वचित्प्राह स्त्रीधर्मांश्च स ईश्वरः ।। २२

क्वचित्साङ्खयं क्वचिद्योगं पञ्चरात्रं च कर्हिचित् ।
धर्मान् परमहंसानां क्वचित्सदसि सोऽब्रवीत् ।। २३

प्रायश्चित्तविधिं प्राह क्वचित् पापापनुत्तये ।
आपद्धर्मांश्च सर्वेषां स जगाद क्वचित्प्रभुः ।। २४

पूर्णकामोऽपि भगवाननुकुर्वन्नृनाटनम् ।
वर्णाश्रमोचितं धर्ममाचचार स्वयं सदा ।। २५

व्रतोपवासनियमान् यथाकालं यथोचितम् ।
जनानां शिक्षणार्थं वै चकार स्वयमीश्वरः ।। २६

चैत्रशुक्लप्रतिपदि वत्सरारम्भवासरे ।
ब्रह्मात्मवासुदेवस्य कारयामास पूजनम् ।। २७

गोदानं स्वर्णदानं च विप्रसन्तर्पणं तथा ।
मन्वादितिथिमुख्यायां तृतीयायामचीकरत् ।। २८

तस्यां तिथौ भगवतः स च मत्स्यमूर्तेः पूजामहोत्सवमपि क्षितिपाल ! सम्यक् ।
शास्त्रोदितेन विधिनैव विधाप्य भुक्त्वा गन्तुं च दुर्गपुरमीश्वर उद्यतोऽभूत् ।। २९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे नानातिथिकृतचरित्रनिरूपणनामा-त्रिषष्टितमोऽध्यायः ।।६३।।