अध्याय - ६४

सुव्रत उवाच


तावद्राजन्पुरादेत्य गोस्वामी भक्तिमान् द्रुतम् । नाम्ना नारायण गिरिः प्रार्थयामास तं प्रभुम् ।। १

आतिथ्यं कर्तुमिच्छामि श्वोऽहं सह मुनेस्तव । मनोरथमिमं स्वामिन्मम सम्पूरय प्रभो ! ।। २

इति सम्प्रार्थितस्तेन भक्तवत्सल ईश्वरः । तथेत्युवाच तावत्तं पौरा अन्येऽप्युपाययुः ।। ३

कुबेरो यौवनाश्वश्च जूषमूलजिदादयः । नमश्चक्रुः प्रभुं भक्त्या तं कुबेर उवाच च ।। ४

अत्रागतस्य ते स्वामिंस्त्रयोविंशतिवासराः । गतास्तत्राऽद्यदिवसे यौवनाश्वमनोरथः ।। ५

पाकस्वीकरणेनैव त्वया सम्पूरितः प्रभो ! । देशान्तरीयलोकाश्च ततः सन्तोषितास्त्वया ।। ६

भक्तावयमपि स्वामिन्भवामस्तव सेवकाः । अननुगृह्य तान् यानं तव नैवोचितं किल ।। ७

किञ्च जन्मोत्सवतिथिर्निकटेऽस्त्यागता तव । तत्र त्वदर्चनं स्वामिन्कर्तुमिच्छाऽस्ति नो हृदि ।। ८

विमलोत्सवपर्यन्तं ततः स्थातुमिहार्हसि । इति सम्प्रार्थितो भक्तैस्तथेत्याह हसन्प्रभुः ।। ९

ततः स न्यवसत्तत्र भक्तान्सन्तोषयन्निजान् । उपावसन्नवम्यां च मध्याह्ने राममार्चयत् ।। १०

तेऽथ भक्तजनाः सर्वे तस्य जन्मदिनं हि तत् । विदन्तः परया प्रीत्या तमानर्चुः समुत्सुकाः ।। ११

वस्त्रैर्नवीनैश्चानर्घ्यैश्चन्दनेन सुगन्धिना । पौष्पैर्मनोहरैर्हारैर्हेमरत्नविभूषणैः ।। १२

नीराजनेन महता स्तुत्या नत्या च सादरम् । तं सम्पूज्य निराहारं व्रतं चक्रुः सजागरम् ।। १३

तत्प्रीतये दशम्यां ते साधून् विप्रान् यथाधनम् । सद्बोज्यैस्तर्पयामासुर्दानानि च ददुर्नृप ! ।। १४

हरिश्च बहुशो विप्रान्सम्भोज्याकृत पारणाम् । महान्तमुत्सवं चक्रे ततस्त्वेकादशीदिने ।। १५

लक्ष्म्या युतं वासुदेवं सौवर्णं भद्रमण्डले । राजोपचारैर्विविधैर्यथाविधि पुपूज सः ।। १६

उपवेश्याथ दोलायां पुनः सम्पूज्य तं ततः । महानिराजनं कृत्वा समान्दोलयति स्म सः ।। १७

मुहूर्तान्ते च तां पूजां समाप्याभ्यर्च्य वाडवान् । चकारोपोषणं स्वामी भक्तैः सह च जागरम् ।। १८

द्वादश्यां विधिवत्कृत्वा पारणां प्रातरेव सः । प्रयाणायाश्ववारान्स्वान् पग्दांश्चाज्ञापयद्द्रुतम् ।। १९

कतिचिन्मुनियूथानि गन्तुं देशान्तराणि सः । आदिदेशाथ कतिचित्सह स्वेनागमाय च । २०

आज्ञाप्य भृत्यान् सहयायिनः स्वान्स उच्चपीठे ह्युपविश्य हैमे ।
सम्पूज्यमानोऽखिलभक्तसङ्घैर्भक्तप्रियस्तान्प्रभुरादिदेश ।। २१

शृण्वन्तु सर्वे पुरुषाश्च योषा निजं निजं देशमितो भवन्तः ।
गच्छन्तु मार्गे ह्यतिसावधाना भवन्तु कृष्णं हृदि धारयन्तः ।। २२

एवमादिश्य तान्सर्वान्भगवान्करुणानिधिः । जय श्रीसच्चिदानन्देत्युच्चार्य हयमारुहत् ।। २३

पाश्चात्यैरश्ववारैश्चपलतरहयैरन्वितो वेष्टनेऽसौ ।
पुष्पापीडान्विचित्रान्सिततिलकवरे कौंकुमं चन्द्रकं च ।।
कण्ठे हाराननेकान् दधदखिलजनैर्वीक्ष्यमाणोऽश्रुनेत्रैः ।
शृण्वन् गीतं सवाद्यं शशिनिभवदनो निर्ययौ भक्तसङ्घात् ।। २४

अनुयातो नरान्नारीर्दृाथ च हरिर्बहून् । न निवर्तयितुं शक्तो बभूव करसंज्ञाया ।। २५

पार्ष्णिस्पर्शद्रावितेन ततोऽश्वेनैकलः स्वयम् । जगाम भक्तदृष्टीनामतिदूरे स सत्वरम् ।। २६

यावद्दृष्टिबलं दृा न्यवर्तन्त च ते जनाः । ध्यायन्तस्तं साश्रुनेत्राः स्वं स्वं देशं ततो युयुः ।। २७

रामप्रतापमुख्यास्तु तदा साकेतवासिनः । आज्ञायैव हरेर्जग्मुर्वाहनैः किञ्चिदग्रतः ।। २८

पाश्चात्यानश्ववारादीन्समेत्याथ हरिः स च । गच्छन्दुर्गपुरं मार्गे भाल्लदेशमुपाययौ ।। २९

तत्रबद्धाञ्जलिपुटान्मार्गमाबध्य संस्थितान् । जनान्सहस्रशोऽपश्यद्बगवान्प्रहसन्मुखः ।। ३०

नमस्कृत्य प्रभुं तेऽथ वल्गां तस्य च वाजिनः । धृत्वा स्वं स्वं पुरं नैतुं हरिं सम्प्रार्थयन्भृशम् ।। ३१

तान्निर्भर्त्स्य हरिर्गन्तुं नाशकद्बक्तवत्सलः । ततस्तेषां प्रियं कर्तुं तत्तत्पुरमगाच्च सः ।। ३२

क्वचिदर्धं क्वचिच्चैकं क्वचिद्द्वे त्रीण्यपि क्वचित् । दिनान्युवास भगवान्भक्तानां प्रियकाम्यया ।। ३३

एवं निवसतस्तस्य मास एकः क्षणो यथा । व्यतिचक्राम भक्तान्स्वान्भृशं तोषयतो हरेः ।। ३४

अथोत्तमस्तु नृपतिर्निवसन्दुर्गपत्तने । हरेः प्रतीक्षया मासं दुःखेन महताऽनयत् ।। ३५

अद्य श्वो वा परश्वो वा सायं वा प्रातरेव वा । हरिरायास्यतीत्येवं चिन्तयाऽन्यं निनाय च ।। ३६

तृतीये मासि तु प्राप्ते भृशं चिन्तातुरो नृपः । भगवद्विरहं सोढुं नाशकत्क्षणमप्यसौ ।। ३७

खानपानविहीनश्च चिन्तातप्तवपुर्नृपः । भूरिप्रजागरः पत्रीं लिलेखैकमनाः शनैः ।। ३८

लिखित्वा स्वप्रणामादि लिलेख प्रार्थनां ततः । अतिक्रान्तैव मर्यादा भगवन् ! या त्वया कृता ।। ३९

एतावत्कालपर्यन्तं प्राणा देहे कथञ्चन । स्थिता अतः परं त्वेते न स्थास्यन्तीति भाति मे ।। ४०

सहनं त्वद्वियोगस्य नाहं कर्तुं क्षमः प्रभो ! । अत्रायाहि ततः शीघ्रं मामाकारय तत्र वा ।। ४१

सविस्तरैतदर्थां तु लिखित्वा पत्रिकां नृपः । दूतेन प्रेषयामास सद्योऽसौ शीघ्रगामिना ।। ४२

तस्मिन्नेव दिने दूतो गुम्फाख्यपुरमागमत् । हरिं प्राप्य ददौ तां च वाचयामास स प्रभुः ।। ४३

सकलां वाचयित्वा तां भगवान्करुणानिधिः । असह्यं स्वस्य विरहं तेनाबुध्यत निश्चितम् ।। ४४

ततः सर्वाननुज्ञाप्य तस्मिन्नेव दिने निशि । अश्ववारैः कतिपयैः सहायाद्दुर्गपत्तनम् ।। ४५

अरुणोदयवेलायां प्रापतत्पुरमीश्वरः । उपविष्टो बहिर्वेद्यां तच्छुश्रावोत्तमो नृपः ।। ४६

अभ्यधावत्तदैवासावनुपानत्पदोऽपि च । प्राणं वपुरिव प्राप्य तमानन्दमवाप सः ।। ४७

उत्तीर्याश्वाद्धरिरपि परिरेभे तमानतम् । कृशीभूतं च तद्देहं दृा विस्मयमाप च ।। ४८

साकं तेन हरिर्वेष्टितो निजपार्षदैः । प्राप्य स्ववसतिं स्थानं न्यवसत्तन्निषेवितः ।। ४९

मानयित्वा भगवतो बन्धूंस्तमिव सादरम् । प्रासादे वासयामास स्वकीये स च भूपतिः ।। ५०
एवं स भगवांश्चक्रे पुरि तत्र नृपोत्सवम् । अन्यानपीदृशानेव तत्र चक्रे स चोत्सवान् ।। ५१

महोत्सवं यः परमं पवित्रं हरेरिमं संशृणुयात्पठेद्वा ।
तौ वाञ्छितार्थं सकलं लभेतां हरेः प्रसादात्परमं पदं च ।। ५२ ।।


इति श्रीसत्संङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे भगवतो दुर्गपत्तनप्रत्यागमननामा चतुषष्टितमोऽध्यायः ।।६४।।