द्विषष्टितमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


कथयाम्यथ सेपाद्ब्राह्माण्डरचनामपि । अधोदलात्क्रमेणैव सर्वामूर्धदलावधि ।।१।।

अधोदलोपरि महद्वर्तते विततं जलम् । तस्योपरि महाकूर्मः शेषस्तस्यास्ति चोपरि ।।२।।

सहस्रशीर्ष्ण एकस्मिन्फणे तस्याखिलोऽपि च ।
भूगोलोऽस्ति पुटेष्वस्य सप्तलोका भवन्ति हि ।।३

पाताललोकः प्रथमे भूपुटेऽस्ति मनोहरः ।
वसन्ति वासुकिमुखा नागा यत्र फळोज्जवलाः ।।४।।

दैत्याश्च दानवाः सन्ति तस्योपरि रसातले । महातले तदुपरि नागाश्च तक्षकादयः ।।५।।

तलातलेऽस्ति तस्योर्ध्वं सगणो मयदानवः । तस्योपर्यस्ति सुतले बलिर्भगवता सह ।।६।।

तस्योपर्यस्ति च शिवो वितले हाटकेश्वरः । तस्योपर्यतले चास्ति सगणो बलदानवः ।।७।।

अष्टमोऽयं हि भूर्लोकस्तन्मध्ये मेरुपर्वतः । तस्योपरि पुरः सन्ति ब्रह्मविष्णुकपर्दिनाम् ।।८।।

इन्द्रादीनां दिक्पतीनां तत्तद्दिक्षु पुरोऽष्ट च । तत्रामरावतीमुख्याः सन्ति हेमाचलेऽनघ ! ।।९।।

जम्बूद्वीपस्तमभितो वेष्टितः क्षारसिन्धुना । लक्षितो नवभिः खण्डैर्वर्तते भारतादिभिः ।।१०।।

सङ्कर्षण उपास्योऽस्ति तत्र खण्ड इलावृते । हयग्रीवश्च भद्राश्वे हरिवर्षे नृकेसरी ।।११।।

कामदेवः केतुमाले मत्स्यमूर्तिश्च रम्यके । उपास्यो भगवानस्ति कूर्मरूपो हिरण्मये ।।१२।।

वराहः कुरुखण्डेऽस्ति रामः किंपुरुषे तथा । नरनारायण ऋषिरुपास्योऽस्मिंश्च भारते ।।१३।।

क्षारोदवेष्टितादस्माद्द्वीपादुत्तर उत्तरः । द्विगुणो द्विगुणो ज्ञोयो द्वीपोऽब्धिश्चापि तादृशः ।।१४।।

जम्बूद्वीपात्परः प्लक्षद्वीपोस्तीक्षुरसाब्धिना । वृतस्तत्र हरिर्लोकैः सूर्यमूर्तिरुपास्यते ।।१५।।

ततश्च शालमलिद्वीपः सुरोदेनाब्धिना वृतः । वर्तते चन्द्ररूपश्च तत्रोपास्यो हरिर्जनैः ।।१६।।

ततः परः कुशद्वीपो घृतोदाब्ध्यभिवेष्टितः । अस्ति तत्राग्निरूपश्च हरिर्लौकैरुपास्यते ।।१७।।

क्षीरोदाब्धिवृतश्चास्ति क्रौञ्चद्वीपस्ततः परः । अम्बुरूपस्तत्र लोकैर्वासुदेव उपास्यते ।।१८।।

दधिमण्डोदाब्धिवृतः शाकद्वीपस्ततः परः । वर्तते तत्र च जनैर्वायुर्हरिरुपास्यते ।।१९।।

स्वादूदकाब्ध्यभिवृतः पुष्कराख्यस्ततः परः । द्वीपोऽस्ति तत्र च ब्राह्या पुष्करस्थ उपास्यते ।।२०।।

ततोऽस्ति काञ्चनी भूमिर्लोकालोकस्ततो नगः । तस्योपरि चतुर्दिक्षु चत्वारः सन्ति दिग्गजाः ।।२१

तत्रैव साक्षाद्बगवान्महापुरुष ईश्वरः । आस्ते च लोकरक्षार्थं विष्वक्सेनादिभिर्वृतः ।।२२।।

भूर्लोकादीदृशादूर्ध्वं भुवर्लोकोऽस्ति सन्मते ! । भूतप्रेतपिशाचानां तद्विहारनिकेतनम् ।।२३।।

भूमध्यगे च हेमाद्रौ दिक्पालानां पुरोऽभितः । सूर्यो दिव्यरथारूढो भ्रमति ह्यण्डमध्यगः ।।२४।।

उपर्युपरि सन्त्येनं मण्डलानि क्रमेण च । चन्द्रर्क्षशुक्रसौम्याङ्गारकदेवपुरोधसाम् ।।२५।।

तद्दुर्ध्वं मण्डलं पङ्गोस्ततः सप्तर्षिमण्डलम् । ततः परं ध्रुवपदं वर्तते धाम वैष्णवम् ।।२६।।

तत्समीपप्रदेशेऽस्ति स्वर्गलोकोऽस्ति शोभनः । तत्रास्तीन्द्रस्त्रिलोकीशः सर्वदेवगणैः सह ।।२७।।

शिशुमाराश्रितं ह्येतत्सूर्याद्यस्ति ध्रुवावधी । ग्रहचक्रं तदुपरि महर्लोकोऽस्ति शोभनः ।।२८।।

जनलोकास्तदुपरि तपोलोकस्ततः परम् । एते लोकास्त्रयः सन्ति ऋषिमण्डलसंश्रिताः ।।२९।।

तत उर्ध्वं सत्यलोको धाम विश्वसृजोऽस्ति तत् । चतुर्दशैते लोकाश्च परितस्तमसावृताः ।।३०।।

अस्ति तस्मात्तु तमसः परं गर्भोदकं मुने ! ।ततः परं चाष्ट सन्ति पृथ्व्याद्यावरणानि च ।।३१।।

ततोऽस्ति मूलप्रकृतिः परंज्योतिस्ततः परम् । तदेव भगवद्धाम यद्ब्रह्मपुरमुच्यते ।।३२।।

एवंस्थितेऽत्र ब्रह्माण्डे योगविज्ञाः समाधिना । तत्तन्नाडयध्वना गत्वा तत्तत्स्थानं समीक्षते ।।३३।।

सुषुम्णयैव भगवद्धाम यत्प्रकृतेः परम् । तच्च दृा पुनर्देहं भौतिकं प्राप्य बुद्धयते ।।३४।।

इत्थं समाधौ स्वातन्त्र्यं प्रेम्णा नारायणे भवेत् । तस्मात्तस्यैव वृद्ध्यर्थं शिक्षेद्योगं गुरोर्बुधः ।।३५।।

भक्तियोगनिपुणस्य सग्दुरोः शिक्षयाऽभ्यसत एव योगिनः ।
योगमेतमिह सिद्धिरीप्सिता स्याद्द्रुतं ह्यनघ ! नेतरस्य तु ।।३६।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे ब्रह्माण्डरचनानिरूपणनामा द्विषष्टितमोऽध्यायः ।।६२।।